________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। (रोगभिषाजितीयं विमानम् द्रव्यगुणकर्मसामान्यविशेषसमवायाः स्वलनणैः श्लोकस्थाने पूर्वमुक्ताः ॥ २४ ॥
गङ्गाधरः-वादमुक्त्वा वाद्यानाह-द्रव्येत्यादि। द्रव्यगुणकर्मसामान्यविशेषसमवायाः स्वलक्षणैः श्लोकस्थाने प्रथमाध्याये पूर्वमुक्ता इति व्याख्यातास्ते विस्तरेण तत्रैव। 'शिष्याणां व्यवसायाथ स्मरणार्थश्चात्र पुनद्रव्यादयः स्वलक्षणैः सङ्घ पेण व्याख्यायन्ते। तद् यथा-पूर्वमुक्तं द्रव्यगुणकर्मणां लक्षणम्। यत्राश्रिताः कम्मैगुणाः कारणं समवायि तत् । तद द्रव्यं समवायी तु निश्चेष्टः कारणं गुणः । संयोगेच विभागेच कारणं द्रव्यमाश्रितम्। कर्त्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते। इति। कारणमित्युक्त्या कार्य्यस्येत्युक्तं यस्य कार्यस्यारम्भे यत्समवायिकारणं विक्रियमाणं कायं वति तत्र विक्रियमाणे यत्र कारणे कायंवमापद्यमाने कर्मगुणा आश्रिताः स्युस्तदेव तस्य कार्यस्य समवायिकारणं तस्य कार्य्यस्य द्रव्यं भवति। यत्र तु कारणे कार्यारम्भे कर्मगुणा आश्रिता न भवन्ति तदयत् कारणं कार्ये स. वायिकाव्यरूपेण परिणमद एकीभवति तत् कारणं तस्य कार्यस्य न द्रव्यमिति। तद् यथा-पृथिव्यापस्तेजोवायुर्मनश्चेति पञ्च सक्रियाणि स्वरूपतः। स्वरूपतश्च निष्क्रियाणि चखारि आत्मा कालो दिगाकाशश्चेति । तत्र कतिधापुरुषीये शारीरे वक्ष्यते। आत्मा निष्क्रियस्तत्र प्रश्नः। निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथमिति। तत्रोत्तरमुक्तम्। अचेतनं क्रियावच्च चेतश्चेतयिता परः। युक्तस्य मनसा तस्य निर्दिश्यन्ते विभोः क्रियाः॥ इति । कार्यारम्भे पृथिव्यादिभिः सक्रियः इतरैश्वाक्रियैः सह संयोगेऽन्योन्यानुप्रवेशादन्योन्यानुग्रहात् पुनःपुनः संयोगविभागाभ्यामावर्त्तनादन्योन्यस्य क्रियागुणमेलनाद्विक्रियमाणान् क्रियागुणान् आश्रित्यात्मकालदिगाकाशवायुतेजोऽम्बुपृथिव्यः कार्ये समवयन्तीति क्रियागुणवत् समवायिकारणान्यात्मादीनि नवैव द्रव्याप्युच्यन्ते । तत्र च तदानीं तेषां क्रियागुणाश्च विक्रियमाणाः क्रियागुणान् विशेषरूपेण जायमानान् गुरुखादीन् गन्धादींश्च नाश्रित्यैव समवयन्तीति क्रियागुणाश्रयवाभावान्न द्रव्याण्युच्यन्ते। तदा हि सङ्ख्यापरिमाणपृथक्वगुणाश्रयः सन् समवाय्यपि रूपरसादि वो निश्चेष्टः क्रियाहीन एव रूपरसाधन्तरारम्भे कारणं रूपरसाधन्तरमारभमाणः समवैति कार्ये इति निश्चेष्टः समवायी सन् कारणं भवति स गुण उच्यते, न द्रव्यं द्रव्यस्य लक्षणे कर्मगुणा इति कर्मपदोपादानात्। महाभूतेषु पृथि
For Private and Personal Use Only