________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः । विमानस्थानम् ।
१५७१ विपर्ययो वितण्डा। वितण्डा नाम परपनदोषवचनमात्रमेव ॥ २३ ॥ यित्वा नास्ति पुनर्भव इति पक्षप्रतिषेधः कृतः । तत्र दृष्टान्तः । यथापवर्गोऽपाणी घटादिर्वा । यथा कर्मफलानुबन्धाभावादामा दुःख नपतो मुच्यते न पुनर्भवति तथा पुनभवहे कर्मफलानुबन्धादामा पुनर्भवति न दुःख जन्मनो :मुच्यते । यथा-महीनो घटादिर्न पुनर्भवति न तथा सा मकः । पुरुषो न पुनर्भवति । तस्मादस्ति पुनर्भव इति, न तु नास्ति पुनर्भव इति । अथ नास्ति पुनर्भव इति, वादी बने नास्ति पुनर्भव इति। कस्मादिति ? तबाह प्रत्यक्षमात्रप्रमाणवादी, परोक्षवात् पुनर्भवस्य। यथा नास्ति मोक्ष इति । अस्ति पुनर्भव आत्मनित्यत्वात् । प्रतिवादी चाह नास्ति पुनर्भवोऽनित्यखादात्मनः। तत्र वादी चाह --अप्ति पुनर्भवो नित्यवादागना, आत्मा हि कर्मफलेन नित्यानुवन्धः। पुनः प्रतिवादी चाह। नास्ति कर्मफलमतो नात्मा कर्मफलानुबन्धः तस्मान्नास्ति पुनर्भवः। तत्र पूनवादी ब्रते। अस्ति कम्मफलम, नास्ति हि तत् कर्म यस्य फलं नास्ति। तस्मात् कर्मफलानुबन्धादात्मनः पुनर्भवोऽस्तीत्येवं जल्पः। इति । . वितण्डां लक्षति। जल्पविपर्ययो वितण्डेति। एतामुदाहरति । तद्विपर्ययो वितण्डा। तहि किं स्वस्वपक्षस्थापनामात्रं परपक्षाप्रतिषेधेन यत् कथयति सा वितण्डेत्यत आह-वितण्डा नामेत्यादि। परपक्षदोषवचनमेव वितण्डा नाप स्वपक्षस्थापनाहीनमिति। तथा चोक्तं गौतमेन । सपतिपक्षस्थापनाहीनो वितण्डा। व्याख्यातमिदं वात्स्यायनेन। पक्षः पक्ष इति प्रतिपक्षं यौ हि समानाधिकरणी विरुद्धौ धौ पक्षप्रतिपक्षावुक्तो तयोरेकतरपक्षस्थापनाहीनो जल्यो वितण्डा। तथा च। प्रमाणतर्कोपालम्भः सिद्धान्ताविरुद्धः पश्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहश्छलजातिनिग्रहस्थानोपालम्भो वितण्डेति पय्य वसीयते। वैतण्डिको हि स्वपक्षं न स्थापयति परपक्षप्रतिषेधेनैव प्रवर्तते । इति । अस्त्वेवं यद्वैतत्परपक्षप्रतिषेधवचनं तदेव वैतण्डिकस्य पक्ष इति न बसौ कश्चिदर्थ साध्यं निर्दिश्य स्थापयतीति बोध्यमिति ॥२३
दोषवचनमात्रमित्यनेन न स्वपअसाधनवचनं वैतण्डिकस्पेति दर्शयति। पूर्वमुक्ता दीर्घ-- श्रीवितीये ॥ २३ ॥
For Private and Personal Use Only