________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५७०
चरक-संहिता। रोगभिपराजितीयं विमानम् यथैकस्य पक्षः पुनर्भवोऽस्ति, नास्तीत्यपरस्य । तौ च स्वस्वपक्षहेतुभिः स्वस्वपनं स्थापयतः परपक्षमुद्भावयतः, एष जल्पस्तद्अन्यूनानधिकैरुपपन्न पक्षप्रतिपक्षाश्रितयोश्छलजातिनिग्रहस्थानैविगृह्य स्वस्थपक्षस्य स्थापनापूर्वकं परपक्षदूषणकथनं जल्पः। जल्पस्याङ्गानि विग्रहे च्छलजातिनिग्रहस्थानानि। तैहि परपक्षं विहत्य स्वपक्षं स्थापयति। प्रतिपक्षप्रतिषेधश्च च्छल जातिनिग्रहस्थानः परप्रतिषेधविघातेन स्वपक्षं यद् रक्षति तत्र सहकारीणि भवन्ति च्छलजातिनिग्रहस्थानानीति जल्पे विग्रहस्याङ्गानि च्छलजातिनिग्रहस्थानानि भवन्ति, न तु स्वातन्त्रण साधनानि भवन्ति । गौतमेनाप्येवमुक्तम्। यथोक्तोषपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः। यथोक्तोपपन्न इति वादलक्षणोक्तोपपन्नः। प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पश्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्प इति। छलजातिनिग्रहस्थानः साधनं स्थापना उपालम्भः प्रतिषेधः एतो यत्र क्रियते स च्छलजातिनिग्रहस्थानसाधनोपालम्भ इति। न तु च्छलजातिनिग्रहस्थानोपालम्भो यथोक्तोपपन्न इति, तथाविधा तु वितण्डा इति। अवयवेषु प्रमाणतकान्तर्भावेऽपि यत् पुनः प्रमाणतर्कयोः पृथगग्रहणं तत् साधनोपालम्भव्यतिषङ्गज्ञापनार्थम्। अन्यथोमानि पक्षौ स्थापनाहेतुना प्रवृत्तौ वादः स्यादिह जल्पः स्याच । अवयवसम्बन्धमन्तरेणापि प्रमाणान्यर्थं साधयन्तीति दृष्टम्। प्रमाणतर्कसाधनोपालम्भो वाद एवेति प्रतिषेधार्थ छलजातिनिग्रहस्थानसाधनोपालन्म एव जल्प इति प्रतिषेधार्थश्च पृथक् प्रमाणतके ग्रहणमिति। एवं निग्रहो जल्प इति प्रतिषेधार्थ छलजातिनिग्रहस्थानसाधनोपालम्भ इति वचनमिति वात्स्यायनव्याख्यानम् ।
जल्पमुदाहरति स्वयम्। यथैकस्यति। पुनर्भवोऽस्तीत्येकस्य पक्षः, नास्ति पुनर्भव इत्यपरस्य पक्षः। तौ च वादिप्रतिवादिनी पुनर्भवोऽस्तीति वादी पुनभेवो नास्तीति प्रतिवादी स्वस्वपक्ष हेतु भिहेतु दृष्टान्तोपनयनिगमनैः स्वस्वपक्षं स्थापयतः परपक्षमुद्भावयतः प्रतिषेधयत एष जल्पः। तद यथा अस्ति पुनर्भव इति वादी ब्रूते। अस्ति पुनर्भव आत्मनित्यखात् । तिस्रषणीये खल्वात्मनो नित्यत्वं प्रत्यक्षानुमानयुक्तिभिराप्तोपदेशेन च स्थापच पश्नोऽस्त्येव, परं स्वमतं न साधयतीति भेदः। यथैकस्येत्यादि जल्पोदाहरणम्। परपले
For Private and Personal Use Only