________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
१५६७
विमानस्थानम्। च्छलम् अहेतुरतीतकालमुपालम्भः परिहारः प्रतिज्ञाहानिरभ्यनुज्ञा हेत्वन्तरमर्थान्तरं निग्रहस्थानमिति ॥ २२ ॥
तत्र तु वादो नाम स यत् परः परेण सह शास्त्रपूर्वक विगृह्य कथयति । स च द्विविधः-संग्रहेण जल्पो वितण्डा च,
योज्यस्य न पृथगवचनं कृतमिति। .तन्त्रेऽस्मिन् वाक्यदोषनाम्ना न्यूनाधिकानर्थकापार्थकविरुद्धानां पश्चानामुक्त्या गोतमोक्तानां न्यूनाधिकपुनरुक्तनिरर्थकापार्थकाप्राप्तकालापसिद्धान्तानां हेखाभासान्तर्गतविरुद्धस्य च संग्रहः कृतः। गौतमेन तु हेखाभासशब्देन सव्यभिचारविरुद्धपकरणसमसाध्यसमातीतकालानामुक्त्या प्रकरणसमवयंसमसंशयसमानामहेतूनां त्रयाणामतीतकालस्य सव्यभिचारस्यात्र संग्रहः कृतः। अभ्यनुज्ञाया मतानुशाशब्देन गौतमेन संग्रहः कृतः। अविशातार्थाप्रतिभाननुभाषणाशानविक्षपाणामत्रोक्तनिग्रहस्थाननाम्ना संग्रहः कृतः। वाक्यदोषाणां निरर्थकादीनां ग्रहणेन वाक्यप्रशंसा नाम न्यूनाधिकार्थवदनपार्थकविदितार्थानां लाभान्न पृथगुक्तिः गौतमेन कृता। कृतश्चापत्तिसम्भवयोरनुमानेऽन्तर्भावः। जिज्ञासामन्तरेण वादप्रत्तिने स्यादित्यतो जिज्ञासा च न पृथगुक्ता तेन। उपालम्भपरिहारयोः गौतमेन जातिशब्देन संग्रहः कृतः ॥ २२ ॥
गङ्गाधरः-अथोद्दिष्टानां वादादीनां मध्ये वादस्वरूपशानमन्तरेण न वादमार्गशानं सम्भवतीति प्रथमतो वादस्योक्तस्य स्वरूपलक्षणमाह-तत्र वादो नामेत्यादि । तत्र वादादिषु मध्ये स वादो नाम यत् परः परेण सह विगृह्य कथयतीति विगृह्यसम्भाषाया वादविशेषस्य लक्षणम्, न तु वादस्य सामान्यलक्षणम् । तत् तु सम्भाषाशब्देनान्वर्थकेन परस्परं प्रमाणतः स्थापना प्रतिषेधाभ्यां पक्षप्रतिपक्षपरिग्रहो वाद इति ख्यापितम्। सा सम्भाषा द्विधा सन्थायसम्भाषा विगृह्यसम्भाषा चेत्युक्तम् । गौतमेन तु वादलक्षणमुक्तम् । यथाप्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वाद इति । व्याख्यातञ्चैतवात्स्यायनेन तत् प्रतिसंस्कृत्य प्रदश्यते। वादमार्गी भिषग्वादमार्गः। वादादयः स्वयमेवाचार्येणाग्रे विब्रियन्त इति नेह संज्ञाकथने विधियन्ते ॥ २२ ॥
चक्रपाणिः-तत्रेत्यादिना वादलक्षणम् । इह 'वाद'शब्देन विगृह्य वादोऽभिप्रेतः, तत्त्व
For Private and Personal Use Only