SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६६ चरक-संहिता। रोगभिषजितीयं विमानम् द्रव्यं गुणाः कर्म सामान्यं विशेषः समवायः प्रतिज्ञा स्थापना प्रतिष्ठापना हेतुष्टान्त उपनयो निगमनमुत्तरं सिद्धान्तः शब्दः प्रत्यक्षमनुमानमैतिह्यम् औपम्यं संशयः प्रयोजनं सव्यभिचारं जिज्ञासा व्यवसायोऽर्थप्राप्तिः सम्भवोऽनुयोज्यम् अननुजोज्यमनुयोगः प्रत्र नुयोगो वाक्यदोषो वाक्यप्रशंसा वाद इत्यादि। निग्रहस्थानमितीत्यन्तेन चतुश्चत्वारिंशत्पदानि। गोतमेन षोड़शपदान्युक्तानि । तद यथा -प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतक निर्णयवादजल्पवितण्डाहेखाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगम इति । तत्र प्रमाणशब्देन चतुश्चखारिंशत्पदानां मध्ये प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति सूत्रेण प्रत्यक्षानुमानोपमानैतिह्याप्तोपदेशार्थापत्तिसम्भवानां संग्रहः कृतः, प्रमेयशब्देनात्मशरीरेन्द्रियार्थबुद्धिमनःप्रत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति सूत्रेण द्रव्यगुणकर्मसामान्यविशेषसमवायानां संग्रहः कृतस्तत्रोक्तशरीरस्य चेष्टेन्द्रियार्थाश्रयः शरीरम् । घ्राणरसनचक्षुस्त्वकश्रोत्राणीन्द्रियाणि भूतेभ्यः पृथिव्यप्तेजोवाय्वाकाशमिति भूतानि। गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्था इत्येतैः सूत्रैविकृतखात् तेनैवेति। अवयवपदेन प्रतिज्ञाहेतूदाहरणोपनयनिगमनानां संग्रहः कृतः । परस्परं हि वादे स्वस्वपक्षं स्थापयितुमेव प्रतिज्ञायते। तेन प्रतिज्ञावचनेनैव स्थापनापतिष्ठापनयोः संग्रहः ख्यापितः पृथइनोक्तः। गौतमेनावयवेषदाहरणोपदेशार्थ दृष्टान्तः पृथगुक्त इह च तथैवेति। शब्दस्याप्तोपदेशैतिह्यप्रमाणवचनस्याप्रमाणवचनस्य च सर्वस्यैव वादमागज्ञानहेतुत्वेन ग्रहणं कृतम् । गौतमेन तु वेदादिशास्त्रात्मकाप्तोपदेशवचनस्य लौकिकैतियवचनस्य च शब्दस्य दृष्टादृष्टार्थस्य सत्यार्थस्य च संग्रहः कृतो नानृतार्थशब्दस्याप्रामाण्यात् निःश्रेयसाधिगमहेतुखाभावाच्च। व्यवसायस्य निर्णयशब्देन गौतमेनोपादानं कृतम् । निग्रहस्थानपदैनाननुयोज्यानुयोगादीनां ग्रहणश्च कृतम्। तत्र गौतमेन निरनुयोज्यानुयोगशब्देनाननुयोज्यानुयोगः संगृहीतः । तत्राननुयोज्यस्य नान्तरीयकत्वेन सिद्धखान्न पृथगवचनं कृतम् । एवं पर्यनुयोज्याक्षेपणशब्देनानुयोज्याननुयोगस्य संग्रहः। स हि प्रत्यनुयोग उच्यते। तत्र चावान्तरीयकखादनुसम्प्रति वादमार्गज्ञानार्थ वादाभिज्ञेयानि द्रव्यगुणादीन्युपदर्शयन्नाह-इमानीत्यादि । भिषजां For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy