________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम्
१५६५ तव्यम् । यद्वा परस्य भृशदुर्गं स्यात् पक्षं परस्य वा भृशं विमुखम्
आनयेत्। परिषदि चोपसंहितायामशक्यमस्माभिर्वक्तुम्, एषव ते परिषत् यथेष्टं यथायोगं यथाभिप्रायं वादं वादमर्यादाञ्च स्थापयिष्यतीत्युक्त्वा तूष्णीमासीत ॥ २१ ॥ ___ तत्रेदं वादमर्यादालक्षणं भवति । इदं वाच्यमिदमवाच्यम् एवं सति पराजितो भवतीति।इमानि तु पदानि खलु भिषग्भिर्वादमार्गज्ञानार्थमधिगन्तःयानि भवन्ति। तद् यथा--वादो
सन्धिं कृवात्मनो निजस्यायनभूतं परस्य जयाथं यत् प्रकरणं वत्मरूपं भवति, तत् सम्भाषणात् पूर्वमादशयितव्यमादेशेन ज्ञातव्यम् । यः पक्षः परस्य सम्भाप्यस्य दुगः स्यात् तं वा पक्षं वादात् पूर्व आनयेत् । पूर्वपक्षण कौशलेन वा उपस्थापयेत। अथवा परस्य यदतिशयविमुखजनककम्म तद्वा कम्मानयेत् । परिपदि सभायामुपसंहितायां सन्निकृष्टायां खया सहास्माभिः वक्तु न शक्यमिति काल्पनिकवचसा तृष्णीमासीत, एप ते इत्यादुक्त्वा च तृष्णीमासीन ॥२१॥
गङ्गाधरः-तत्रेदमित्यादि। वादमर्यादा वादस्य सीमा तस्या लक्षणम् । ननु वादे कर्तव्ये कः पन्थाः कुतो वा बादस्य वर्त्म ज्ञायते इत्यत आह -- इमानीत्यादि। पदान्यर्थवन्ति वर्णात्मकाः शब्दाः अधिगन्तव्यानि अर्थतो विधितश्च ज्ञातव्यानि। ननु कानि पदानि इत्यन आह ... तद् यथेत्यादि।
मागीमूतमिव अभ्यस्तमित्यर्थः। परस्य भृशदुर्गमिति प्रतिवादिनोऽविदिततत्त्वेन दुर्गमिव दुर्गम्, तत् पूर्व सन्धित तथा परिपदादेशयेत् । पक्षान्तरमाह--पक्षमथवेत्यादि। परस्य प्रतिवादिनः पक्षं भृशमत्यर्थ सभायां यश विमुखं भवति, तथा वादं प्रवर्त्तयेत्। एतेन नास्ति परलोकः, नास्ति कर्मफलमित्यादि यदि परस्य पवे भवति, लदैतस्य पक्षस्य स्वाभाविकद्विष्टत्वेन यत्किञ्चित् स्त्रपक्षसाधनमुच्यते, तदेव परिपदपि गृह्णातीत्युक्तं भवति। उपसंहितायामिति संहितादियुक्तायां तृणीमासीतेति योजना। उपसंहिता हि परिपत् परोक्षणाभिमतत्वेन उपदर्शितमेव सर्च करिष्यति, तदलमिहात्यर्थवचनेन माहात्म्यखण्डकेनेति भावः ॥ १८-२१॥
चक्रपाणिः-वादमर्यादालक्षणमाह- तदमित्यादि। वादशब्देन चेह विगृह्य पक्षप्रतिपक्षवचनमात्रमुच्यते। सन्धायसम्भापयैव तत्त्वबुभुत्सोर्वाद उक्तः ।
For Private and Personal Use Only