SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६४ चरक-संहिता। रोगभिषगजितीयं विमानम् । शारदमपत्रपणेन , कोपनमायासेन, भीरु वित्रासनेन, अनवहितं नियमनेनेति । एवमेतैरुपायरवरमभिभवेत् ॥ १६ ॥ तत्र श्लोको। विगृह्य कथयेद युक्त्या युक्तञ्च न निवारयेत् । विगृह्य भाषा तीव्र हि केषाश्चिद् द्रोहमावहेत् ॥ नाकाय्यमस्ति क्रुद्धस्य नावाच्यमपि विद्यते । कुशला नाभिनन्दन्ति कलहं समितौ सताम् ॥ २०॥ एवं प्रवृत्ते तु वादे+। प्रागेव कार्याद्वादात् तावदिदं कर्त यतेत। सन्धाय परिषदाऽयनभूतमात्मनः प्रकरणमादेर्शायअपत्रपणेन लज्जाजनकवचनेन । कोपनमायासेन क्लशजनकवचनेन । भीरु वित्रासनेन त्रासजनकवचनेन। अनवहितमवधानहीनं नियमनेन नियतवचनेन । परं प्रतिपक्षम् । अवरमधमम् ॥ १९ ॥ गङ्गाधरः----श्लोकेनेममर्थमाह--तत्र श्लोकावित्यादि। विगृहप्रत्यादि । उक्तप्रकारेण युक्त्या विगृह्य अवरं कथयेत् जल्पेत् । युक्तं श्रेष्ठं परं विगृह्य न निवारयेत्। ननु कुतो युक्तं न विगृह्य निवारयेदित्यत आह-- विगृहे प्रत्यादि। यतः केपाश्चिद् विगृह्यसम्भाषा तीव्र द्रोहमावत् । तत् केपामित्यत आह नाकार्यमित्यादि। क्रुद्धस्य किश्चिदपि अभिशापकलहादिकमकार्य नास्ति। सव्वमेव क्रुद्धस्य कार्य भवति तथा क्रुद्धस्य किश्चिदप्यवाच्यं मातापित्रादीनां दुर्वचनेन कलहादिवचनादिक न वर्त्तते, अपि तु सर्वमेव वाच्यं भवति । तस्मात् कुशलाः सजनाः पण्डिताः सतां संहिताः कलह नाभिनन्दन्ति तस्माद् युक्त विगृह्य न निवारयेत् ॥२० गङ्गाधरः-एवं कर्तव्ये वादे पूर्व यत् कर्तव्यं तदाह-एवमित्यादि। कार्यादिति वादादित्यन्वयः। इदं वक्ष्यमाणं परिषदा पारिषदेन सह सन्धाय शारदमित्यदृष्टसभम् । अदृष्टसभो हि हपणेनातीव लजितः सन् न किञ्चित् प्रतिपद्यते। एव. मिति "तद यथा श्रुतहीनम्" इत्यादिग्रन्थोक्तम्। प्रवृत्ते वादे कुर्यादिति च्छेदः । तथाऽप्रवृत्ते वादे किं कुर्यादित्याह-प्रागेवेत्यादि। अयनभूतमिति अभ्यासात् * अपहपणेनेति वा पाठः। : कुर्यात् । इत्यधिकः पाठः कचित् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy