SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दम अध्यायः विमानस्थानम् । १५६३ चावहितंन परस्परसादगुण्यदोषबलमवेक्षितव्यम्। समवेक्ष्य च यौनं श्रेष्ठं मन्येत, नास्य तत्र जल्पं योजयेदनाविष्कृतमयोगं कुर्वन् । यत्र त्वेनमवरं मन्येत, तत्रवैनमाशु निगृह्णीयात् ॥१८॥ ___ तत्र खल्विमे प्रत्यवराणामाशुनिग्रहे भवन्त्युपायाः। तद यथा-श्रुतहीनं महता सूत्रपाठेनाभिभवेत्, विज्ञानहीनं पुनः कष्टशब्देन वाक्येन, वाक्यधारणाहीनमाविद्धदीर्घसूत्रसङ्कुलैः वाक्यदण्डकैः, प्रतिभाहीनं पुनर्वचनेनानेकविधनानेकार्थवाचिना, वचनशक्तिहीनमोक्तस्य वाक्यस्याक्षेपणेन, अवि पुरुषस्यात्मनश्च सादगुण्यं दोषश्च तयोवलम् । श्रेष्ठं सादगुण्येन श्रेष्ठम् न तु दोषबलेन। यत्र तु एनं सम्भाष्यं पुरुषमनाविष्कृतं जल्पेनालपितमप्रशंसितम् अयोगं कुर्वन् अवरं मन्येत, तस्य जल्पेनानुनिग्रहं कुर्यात् ॥१८॥ गङ्गाधरः-तत्रेत्यादि स्पष्टम् । तद् यथेत्यादि । श्रुतहीनं तच्छास्त्रेऽनधीतम् । विज्ञानहीनं तच्छास्त्रार्थतत्त्वज्ञानहीनं कष्टशब्देन दुर्बोधार्थकशब्दात्मकेन वाक्येन । वाक्यधारणाहीनमल्पमेधसमाविद्धदीर्घसूत्रसक लैः । प्रतिभाहीनं श्रुतमात्रमर्थवोधः प्रतिभा। अनेकविधेन नानार्थकशब्दात्मकवचनेन। अौंक्तवाक्यस्याक्षेपेण व्यङ्गनार्थकशब्दात्मकेन वाक्येन । अविशारदं पाण्डित्यहीनम्, चक्रपाणिः-सादगुण्यस्य विद्यमानगुणतायास्तथा दोषस्य बलं साद्गुण्यदोषबलम् । श्रेष्ठ मन्येतेति यत्र वादविषये प्रतिवादिनमधिकं पश्येदित्यर्थः, तत्र परस्य पुरःसरवादविषये तथा वादो निवर्तनीयः, यथा आविष्कृतः प्रकटीकृतः सभाया नायोगः। तत्र वादो निवृत्तलक्षणो न स्यात् । अनभीष्टविषये तथा वादनिवृत्तिः कर्त्तव्या यथा कोऽपि न जानात्येवं तत्र वक्तुमक्षममित्यर्थः । तत्रैवेति तत्रैव हीनपक्षे प्रवृत्तं निगृह्णीयादिति योजना। महता सूत्रपाठेनेति श्रुतहीनो ह्यपरिचयादीर्घसूत्रपाठं कर्तुमक्षमः, विज्ञानहीनमिति अज्ञातार्थम्। नानार्थवाचिनेत्यनेकार्थवाचिना । एकविधेनेत्येकविधेन शब्देन प्रतिभाहीनो ह्यनेकार्थ नावधारयति-यत्-केनाभिप्रायेणायं प्रयुक्तोऽनेन शब्द इति। वचनशक्तिहीनोऽोक्तवाक्याक्षेपान्न पुनर्वक्तु क्षमो भवतीति दृष्टम्। अवि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy