________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६२
चरक-संहिता। (रोगभिषजितीयं विमानम् अथवा पुनींना ते प्रतिज्ञोति। पुनश्चाह्वयमानः प्रतिवक्तव्यः परिसंवत्सरो भवान् शिक्षख तावद्गुरुमुपासितो नूनम् । अथवा पर्याप्तमेतावत् ते। सकुदेव हि परिक्षेपिकं निहतं निहतमाहुरिति न्यासयोगः ॐ कर्त्तव्यः कथञ्चित्। एवमेव श्रेयसा सह विगृह्य वक्तव्यमित्याहरेके। न त्वेवं ज्यायसा सह विग्रहश्च प्रशंसन्ति कुशलाः ॥ १७॥
प्रत्यवरेण तु सह समानाभिमतेन वा विगृह्य जल्पता सुहृत्परिषदि कथयितव्यम्। अथवाप्युदासीनपरिषद्यवधानश्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसम्पन्नायां कथयता अवता परः सम्भाष्यमाणः भो भवता नोच्यत इति वक्तव्यः । अथवा पुनश्चाद्दयमानः भोः पुरुषेत्यायमानः आहूयमानः सभोः ते तव प्रतिज्ञा हीनेति प्रतिवक्तव्यः। अथवा परिसंवत्सरः संवत्सरं परिप्राप्तस्तावत् गुरुमुपासितो ननं शिक्षस्वेति वक्तव्यः। अथवा ते तव एतत् सर्व मयि पर्याप्तं परिगतम् । सकृदकवारमेव हि निश्चितम्। परिक्षेपिकमुद्रिक्तसत्त्वगुणेन शान्तो भूखा जल्पजन्यक्लेशसाधनात् विरतः सन् आनन्दसाधनेषु भावेषु निरतिविक्षेपः स एव परिक्षेपः तदीयं यदयत् कम्म तत् तत् परिक्षेपिकं निहतं निहतं तव मतमित्याहुरेवं कचिन्मौनं कचिद्धास्यमित्येवमादि न्यासयोगः कथश्चिदपि कर्तव्यः । एवमित्यादि। एवं श्रेयसा श्रेष्ठेन ज्यायसा ज्येष्ठन । अप्रतिषिद्धखादनुमतमेकेषां मतम् ॥१७॥
गङ्गाधरः-प्रत्यवरेणेत्यादि। मुहृत्परिषदीति। ज्ञानवत्यां मूढ़ायां वा प्रत्यवरेण समेन वा सह विगृह्य जल्पता कथयितव्यमुक्तरूपेण। अथवेत्यादि । अवधानादिसम्पन्नायामर्थात् ज्ञानवत्याम् उदासीनपरिषदि परस्परं सम्भाष्य वाच्यम्-हीना ते प्रतिज्ञेति। परिसंवत्सरोऽध्ययनं स्वयमुपसंस्कृत्य पुनरध्येता पर्याप्तमेतावत् ते इति पक्षावसादायेति शेषः। परिक्षेपिकमिति प्रतिक्षेपिकशब्दम्। नास्य योगः कर्तव्य इति न सकृत् पराभूतस्य पक्षस्य पुनः प्रतिक्षेपकहेतुना योगः कर्त्तव्य इत्यर्थः। कथञ्चिदित्यादिना श्रेयसा समं विगृह्य सम्भापायामेकीयमतमाह, न लेवेत्यादिना आत्ममतमाह ॥ १५-१७॥
* नास्य योग इति वा पाठः ।
For Private and Personal Use Only