________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१५६१ विधीयते। मूढ़ायान्तु सुहृत्परिषदि वोदासीनायां वा ज्ञानविज्ञानवचनप्रतिवचनशक्तीरन्तरेणापि दीप्तयशसा महाजनविद्विष्टेनापि सह जल्पो विधीयते । तथाविधेन च सह कथयता त्वाविद्धदीर्घसूत्रसङ्कलैर्वाक्यदण्डकैः कथयितव्यम्। अतिहृष्टं मुहम्मुहुरुषहसता परं निरूपयता च परिषदमाकारब्रवतश्चास्य वाक्यावकाशो न देयः । कष्टं शब्दश्च वक्ता वक्तव्यो नोच्यते
निविष्टायां परिषदि। मूढ़ायां वा प्रतिनिविष्टायां परिपदि कथञ्चित् केनापि प्रकारेण केनचित् सभ्येन सह न जपो विधीयते न कार्य इत्यर्थः। प्रतिनिविष्टत्वेन मुजल्पितमपि सदोषं वर्णयिखा पराजयकरणस्य सम्भवात् । मूढ़ायां सुहृत्परिपदि मूढ़ायामुदासीनपरिषदि वा स्वस्य ज्ञान विज्ञानादिकं विनापि अपिकारात् ज्ञानादिसद्भावे किं वचनं दीप्तयशसा महाजन विद्विष्टेनापि दुरात्मना सह जल्पो विधीयते। सदात्मना तु किं वचनं विग्रहे का कथा । ननु केन प्रकारेण दीप्तयशसा महाजनविद्विष्टेन दुरात्मना सह सम्भाषेतेति नदुपदिशनि-तथाविधेनेत्यादि। तथाविधेन मूढ़ायां सुहृत्परिषदि मूढ़ायामुदासीनपरिषदि वा निविष्टेन दीप्तयशसा महाजनविद्विष्टेन दुरात्मना सह कथयता सम्भापमाणेन पुसा तु आविद्धदीर्घमूत्रसङ्कलैरितरेण ईषदविद्धं दीर्घ भूत्रं यत् तेन सङ्क ला मिश्रिता ये वाक्यांशका दण्डास्तैः कथयिनव्यम् । आकारैराकृतिभिमुहुम्मुहुरतिहष्टं यथा स्यात् तथा परिषदम् उपहसता परमुत्कृष्टं यथा स्यात् तथा परिपदं निरूपयता च व वतश्चास्य परस्य वाक्यावकाशो न देय इत्यविच्छदेनाविद्धदीर्घमूत्रसङ्घ लैाक्यदण्डकैः कथयिनव्यमित्यर्थः। कष्टशब्दश्च वाक्यावकाशाभावेऽप्यवान्तरं कष्टशब्दात्मकं वाक्यं
केनचिदिति नाधमेनापीत्यर्थः। आविद्धं वक्रम्। कथयितव्यमिति वक्तव्यम्। उपहसता परमाकारैरिति योजना। तथा परिषदं रूप यता आकारै रिति सम्बन्धः। कष्टशब्दमिति नातिप्रसिद्धार्थम् । नोच्यत इत्येवं नोच्यत इति वक्तव्यम्। कष्टशब्दस्य ह्यर्थ मूढ़परिषत् न जानात्येव । ततश्च कष्टशब्दस्यानर्थकतायाः परिषदं प्राप्य सुखसाध्यत्वमिति भावः। तथा कष्टशब्द वदंस्त्वेवं
* अदीप्तयशसेति चक्रः।
१०६
For Private and Personal Use Only