________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९५६०
चरक-संहिता। रोगभिपग्जितीयं विमानम् भीरुत्वमधारणत्वमनवहितत्वमिति । एतान् द्वयानपि गुणान् गुरुलाघवतः परस्य चैवात्मनश्च तुलयेत् ॥१४॥ .. तत्र त्रिविधः परः सम्पद्यते, प्रवरः प्रत्यवरः समो वा गुणविनिक्षेपतः, न त्वेवं कान्येन। परिषत् तु खलु द्विविधा, ज्ञानवती मूढ़ा परिषच्च। सैव द्विविधा सती त्रिविधा पुनरनेन कारणविभागेन। सुहृत्परिषदुदासीनपरिषत् प्रतिनिविष्टपरिषच्चेति ॥ १५॥१६॥
तत्र प्रतिनिविष्टायां परिषदि ज्ञानविज्ञानवचनप्रतिवचनशक्ति सम्पन्नायां मूढ़ायां वा न कथञ्चित् केनचित् सह जल्पो शब्दतोऽभ्यासविरहः। अनवहितत्वमवधानविरहः। एतानित्यादि। परस्य सम्भाष्यस्य आत्मनो निजस्य तुलयेत् तौलं कुर्यात् ॥१४॥
गङ्गाधरः--प्रवरः श्रेष्ठः प्रत्यवरः कनिष्ठः । गुणविक्षेपतः परस्य श्रेयस्करसदोषान्यतरेषु गुणेषु स्वगुणविनिक्षेपतः श्रुतखादीनां केषाश्चिदाधिक्यन्यूनखाभ्यां न पुनरेवंगुणानां का स्न्येन । परिषत् खित्यादिना सैव परिषत् ज्ञानवती मृति द्विधा सती त्रिविधा पुनर्भवति प्रत्येकम्। अनेककारणभेदात्। तथा च विकृणोति-सुहृदित्यादि। ज्ञानवती सुहत्परिषत्, ज्ञानवती उदासीनपरिषत्, ज्ञानवती प्रतिनिविष्टपरिषच्चेति त्रिधा ज्ञानवती सभा। मूढ़ा सुहृत्परिपत्, मूढ़ोदासीनपरिपत्, मूढ़ा प्रतिनिविष्टपरिषच्चेति त्रिधा मूढ़परिषदित्येकीभूय पोढ़ा परिषत् । अत्र उदासीना न सुहन्न च शत्रुर्यत्र सा प्रतिनिविष्टा स्वसोहा भावेन सभ्या निविष्टा यत्र सा तथा ॥१५॥१६॥
गङ्गाधरः-तत्र कस्यां सभायां कथं सम्भाषेतेत्यत आह-तत्रेत्यादि । तत्र षटमु परिपत्सु मध्ये ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नायां प्रतिप्रतिभादिविशेषमित्यर्थः। जल्पान्तरमिति सामयिकसर्वार्थादिविशेषितं जल्पविशेषमित्यर्थः ॥१४॥
चक्रपाणिः-गुणविनिक्षेपत इति उत्कृष्टगुणत्वेन प्रवर इत्यर्थः, प्रत्यवरो हीनगुणः, समगुणः समो वाद्यपेक्षयेत्यर्थः। न त्वेव कान्येनेति न कुलशीलधर्मादिनापि प्रवरादिरिहाभिप्रेत इत्यर्थः। मूढ़परिषदित्यत्र मूदेव मूढ़ा किञ्चित्कृत्ये, सर्वथा मूदायान्तु न कश्चिद व्रते। न
For Private and Personal Use Only