________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः ] विमानस्थानम् ।
१५५६ आत्मनः पश्यन्। प्रागेव च जल्पाजल्यान्तरं एरावरान्तरं परिषद्विशेषांश्च परीक्षेत सम्यक् । परीक्षा हि बुद्धिमतां कार्यप्रवृत्तिनिवृत्तिकालो शंसति । तस्मात् परीक्षामभिप्रशंसन्ति कुशलाः। परीक्षमाणस्तु खलु परावरान्तरमिमान् जल्पकगुणान् श्रेयस्करान् दोषवतश्च परीक्षेत सम्यक् । तद्यथा-श्रुतं विज्ञानं धारणं प्रतिभानं वचनशक्तिरित्येतान् गुणान् श्रेयस्करान् आहुः। इमान् पुनर्दोषवतः। तद् यथा-कोपनत्वमवैशारद्य
विज्ञानवचनप्रतिवचनशक्तिभिरसम्पन्नेन कोपनेन उपस्कृतविदानास्यकेन अननुनयेनानुनयमूर्खण क्लेशासहिष्णुना चाप्रियसम्भाषणेन सह विगृह्य सम्भाषेत विगृह्यसम्भाषां विदध्यादिति । आत्मनः श्रेयसा परस्मादुत्कृष्टविद्याबुद्धयादिना योगं पश्यन् कुशलः। अश्रेयसा योगं पश्यंस्तु न विगृह्य सम्भाषेतेत्यर्थः। कथं श्रेयसा योगायोगौ दृश्यौ स्यातामित्यत आह-श्रेयसा योगप्रकारम्। प्रागेवेत्यादि। स्वेन सह सम्भाष्यपुरुषस्य जल्पात् पूर्वमेव विगृह्य सम्भाष्यपुरुषस्य जल्पान्तरमपरेण सह जल्पस्तेन परस्य विगृह्य सम्भाष्यस्यावान्तरं श्रेष्ठखमवरत्वं समत्वं निजात् तेषामन्यतमं परीक्षेत । परिषदां समानां विशेषांश्च पण्डितसमादिरूपान् परीक्षेत सम्यक् । ननु कस्मात् परीक्षतेत्यत आह --परीक्षा हीत्यादि। परीक्षा हि यस्मात् बुद्धिमतां काय्र्येषु प्रवृत्ती अयमेव कालः श्रेयस्करः अयमेव कालस्वश्रेयस्कर इत्यतस्तेषु कार्येषु निवृत्तौ स कालः श्रेयस्कर इति शंसति व्यनक्ति। ननु केन प्रकारेण तदद्वयं परीक्षेतेत्यत आह–परीक्षमाणस्वित्यादि। परावरान्तरं परीक्षमाणस्तु जल्पके सम्भाष्यपुरुषे इमान वक्ष्यमाणान् दोषवतः सदोषान् । परीक्षाप्रकारमाह-श्रुतमित्यादि। श्रुतमध्ययनं विज्ञानं विज्ञत्वं धारणं शब्दतः शास्त्राभ्यासः प्रतिभानं बुद्धिप्रकाशः परोक्तो द्रुतावबोधशक्तिः वचनशक्तिर्वाचनाशक्तिः। दोषवतो गुणांस्तु कोपनवमित्यादिकान्। अधारणत्वं
हि न्याये-"तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयाद" इति। सम्भाषेति प्रवृत्तकथोपलक्षणम्। तेन सा वितण्डेति च ज्ञेयम्। परावरान्तरमिति प्रतिवादिन आत्मनश्च
For Private and Personal Use Only