________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५८
चरक-संहिता। रोगभिषगजितीयं विमानम् पृच्छंश्चास्मै विस्रब्धाय विशदार्थजातं ब्रूयात् । न च निग्रहभयादुद्विजेत। निगृह्य चैनं न हृष्येत्, न च परेषु विकत्थेत । न च मोहादेकान्तग्राही स्यान्न चानुविदितमर्थमनुवर्णयेत् । सम्यक् चानुनयेनानुनीयेत। अनुनयाच्च परं तत्र चावहितः स्यादित्यनुलोमसम्भाषाविधिः ॥ १३ ॥. ___ अत ऊ मितरेण सह विगृह्य सम्भाषेत श्रेयसा योगम् सम्भाषा कायंत्यतः सन्धायसम्भाषाप्रकारमुपदिशति-- तथाविधेनेत्यादि । तथा विधेन निरुक्तेन ज्ञानादिसम्पन्नादिना महाजनेन सह संकथयन् शास्त्रार्थ संलपन पुरुषः विस्रब्धो विश्वस्तः सन् कथयेत् विसन्धश्च सन् शास्त्रार्थ पृच्छेत्। अथास्मै ज्ञानादिसम्पन्नादिमहाजनाय विस्रब्धाय विश्वस्ताय पृच्छंश्च सम्भापमाणः पुरुषो विशदार्थजातं ब्रयात् न खविशदार्थम् । न च निग्रहभयादुद्विजेत। अयं महाजनो यदि मां स्खलितार्थव वनेन निगृह्णीयादित्युद्वेगं न कुर्यात् तन्महाजनक कनिग्रहे हि नायश इति भावः। अयं महाजनो यदि कथञ्चित् स्मृत्यादिविरहेण निग्रहमापद्यमानः स्यात् तथाप्येनं निगृह्य न च हृष्येत् । महाजनो हि प्रथितविद्याकीर्तिपौरुषादिः कथञ्चित् स्मृत्यायभावेन न निग्रहीतुमर्हति तन्निग्रहं कत्तु मशक्तेन विद्यादिभिरल्पेन कथञ्चिन्निग्रहेऽपि तस्य विद्याद्यतिशयिखेनायशः प्रतिपद्यते। अत एव परेषु अन्यत्र न विकत्थेत न श्लाघेतेति। मोहादेकान्तग्राही न च स्यात् एकान्तं निरन्तरं तदुत्तराशक्य विषये पुनः पुनग्रहणं न कुर्यात् । अनुविदितमुत्तरकालं विदितमर्थ नानुवर्णयेत् ॥१३॥
गङ्गाधरः-विगृह्यसम्भाषाविधिमाह–अत ऊर्द्ध मित्यादि। इतरेण शानवितण्डारूपा ज्ञेया। तत्रेत्यादिना सन्धायसम्भाषाविधिमाह-विस्रब्धः कथयेदिति जल्पवितण्डोक्तनिग्रहाभीतः। कथयेदिति ब्र यात्। निगृह्य चैनं न हृष्येदिति अनुलोमसम्भाषारूपवादे च यानि सम्भवन्ति निग्रहस्थानानि तत्त्वविघातीनि हेत्वाभासापसिद्धान्तानि न्यूनाधिकरूपाणि, तैरपि निगृह्य न हृष्येत्। जल्पोक्तनिग्रहस्थानानि त्वत्र ग्राह्याण्येव। अविदितमिति प्रतिवादिनोऽविदितम्। अनुनयेच्च सम्यगनुनयेनेति सम्बन्धः। तेन चात्र च्छलजातिप्रयोगो न कर्त्तव्य इति शिक्षयति । तत्र चावहितः स्यादिति सम्यगनुनयेऽवधानं कुर्यात् ॥ १३॥
चक्रपाणिः- इतरेणेति अविशिष्टेन। वादैस्तु विशिष्टो गुरब्रह्मचारी बाधिकृतः, उक्त
For Private and Personal Use Only