________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः । विमानस्थानम् ।
१५५७ द्विविधा तु खलु तद्विद्यसम्भाषा भवति । सन्धाय-सम्भाषा विगृह्य-सम्भाषाच। तत्र ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नेनाकोपने-नानुपस्कृतविदा-नानसूयके-नानुनये-नानुनयकोविदेन क्लेशक्षमेण प्रियसम्भाषणेन च सह सन्धाय सम्भाषा विधीयते। तथाविधेन सह संकथयन् विस्रब्धः कथयेत् पृच्छेदपि च विस्रब्धः,
गङ्गाधरः-ननु केन प्रकारेण सम्भाषत इत्यत आह-द्विविधेत्यादि । सन्धाय सन्धिं कृखा सम्भाषा सन्धाय-सम्भाषा, विगृह्य विग्रहं कृखा सम्भाषा विगृह्य-सम्भाषा। तत्र द्वयोः सम्भाषयोमध्ये ज्ञानविज्ञानादिमता या सम्भापा विधीयते परेण सह सा सम्भाषा सन्धायसम्भाषा । ज्ञानं शास्त्रार्थज्ञानं विज्ञानं तदथेनिश्चयस्ताभ्यां वचनं पूर्वपक्षोक्तिः प्रतिवचनमुक्तरोक्तिस्तयोई योः शक्त्या सम्पन्नोऽक्रोधी यः पुमान् तेन सम्भाषा च विगृह्यापि सम्भाव्यते इति तद्वारणायाहाकोपनेनेति । अकोपशालिना इत्यर्थः। ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नस्वकोपनश्च यः पण्डितः स यदि विकृतविद्यो विस्मृतिसंशयादिभिर्भवति तदा सुतरां विग्रह कर्तुं न समर्थः स्यादित्यकोपनोऽपि कोपमापद्यते इति तादृशेन सह विगृह्यसम्भाषावारणायानुपस्कृतविदेोनेति। भ्रमसंशयादिविरहेण स्मृत्यादिभिर्न भूषितीकृता विद्या येन तेन । तथा ज्ञानादिसम्पन्नश्चाकोपनश्चानुपस्कृतविद्यश्वासूयां कृखा यः सम्भाषते तत्सम्भाषावारणायानसूयकेनेति। अनुनेयेनेति यो हि सम्भाष्यस्तेन ज्ञानविज्ञानादितस्तस्य निजस्य विद्यया बुद्धयादिभिश्च तुलातुलाभ्यामनुमेयेन। अनुनये विनये पण्डितस्तेन इति केचिद् व्याख्यानयन्ति तन्न, सन्धायसम्भाषाया हि नेदं लक्षणं, परन्तु येन सह सन्धायसम्भाषा कर्तव्या विगृह्यसम्भाषा चाकर्त्तव्या तदुपदेशोऽयमिति । तथा च यस्तु शानं विज्ञानं वचनं प्रतिवचनशक्तिश्चेत्येताभिः सम्पन्नस्तथा च अकोपनः स्मृत्यादिभिभू पितविद्यश्च न चाम्यकः अनुनेतुमर्हश्चानुनये कोविदश्च क्लेशं सम्भाषासु कटुवचनादिजनितं धैर्यगाम्भीर्यादिगुणैः क्षमितु शीलं यस्य स क्लेशक्षमः प्रियसम्भाषणश्च भवति तादृशेन महाजनेन सह सन्धायसम्भाषा विधीयते कुशलेन न तु विगृह्यसम्भाषा कर्तव्या। ननु तेन सह केन प्रकारेण सन्धायचक्रपाणि:- स.न्धायसम्भाषा, नये 'वादः' इत्युच्यते। विगृह्यसम्भाषा तुल्यव्यक्तिजल्प
For Private and Personal Use Only