SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५६ चरक-संहिता। रोगभिषगजितीयं विमानम् सम्भाषेत ; तद्विद्यसम्भाषा हि ज्ञानाभियोगसंहर्षकरी भवति, वैशारद्यमपि चाभिनिवर्त्तयति, वचनशक्तिमपि चाधत्ते, यशश्वाभिदीपयति, पूर्वश्रुते च सन्देहवतः पुनःश्रवणात् संशयमप. कर्षति, श्रुते चासन्देहवतो भूयोऽध्यवसायमभिनिवर्त्तयति अश्रुतमपि कश्चिदर्थं श्रोत्रविषयमापादयति। यच्चाचार्यः शिष्याय शुश्रूषवे प्रसन्नः क्रमेणोपदिशति गुह्याभिमतमर्थजातम् । तत् परस्परेण सह जल्पन् पण्डेन ® विजिगीषुराह संहर्षात् तस्मात् तद्विद्यसम्भाषामभिप्रशंसन्ति कुशलाः ॥ १२ ॥ सम्भापेतंति परस्परं शास्त्रं भाषेत । भिषक् भिषजा सहेत्यनेन सम्भाषणमत्र तद्विद्यस्य तद्विदान सहेति गम्यते। कस्माद्भिषक् भिषजा सह सम्भाषेत इत्यत आह-तद्विदेवत्यादि। तद्विदेप्रति यो येन सह सम्भाषते तस्य यस्मिन् शास्त्र यस्मिन् तन्त्रे वा विद्या तस्मिन् शास्त्रे तन्त्रे वा विद्या यस्य स तद्विद्यः एकशास्त्रविद्य एकतन्त्रविद्यो वेति यावत् । तयोः सम्भाषा परस्परं तच्छास्त्रस्य तत्तन्त्रस्य वा वादः सम्भापा। ज्ञानाभियोगः सर्वतोभावेन ज्ञानयोगः संहर्षश्च तो कत्तु शीलं यस्याः सा तथा। वैशारद्यपाण्डित्यं तत्त्वाभिनिवेशः। वचनशक्तिः शब्दतश्चार्थतश्वोक्तौ सामर्थ्यम् । पूर्वश्रुते च अध्ययनकाले गुरुतः श्रुतेऽर्थे यदि सन्देहो वर्तते तर्हि पुनश्चापरस्मात् तस्य शब्दतश्चातश्च श्रवणात् संशयमपकर्षति। श्रुते चार्थे शब्द तश्चार्थतश्च यदि सन्देहो न वर्त्तते तदा भूयोऽध्यवसायोऽधिकव्यवसायस्तं जनयति । अश्रुतं गुरुमुखादश्रुतम्। यश्चार्थं पण्डेन स्वपाण्डित्यप्रकाशनेन विजिगीषुर्विजेतुमिच्छुराह, विजयो हि संहर्षकर इत्यत आह संहर्षात् । तस्मात् शानाभियोगादिफलकखात् ॥१२॥ .. चक्रपाणिः-संहर्षः स्पा। ज्ञानार्थमभियोगसंहर्षों करोतीति ज्ञानाभियोगसंहर्षकरी। वैशारयमिति परवचनाभिभवपाण्डित्यम्, एतच्च सभायामभ्यासाद् भवति। भूयोऽध्यवसायमिति दृढ़निश्चयम् । अथ कथं श्रुतत्वमपि कस्यचिद् गुह्यस्यार्थस्य स्यात् तदाह-जल्पन् पिण्डनेति। पिण्डेनेति सारोद्धारेण। ननु गुह्यश्चेत् सारतस्तत् कथमयं विजिगीषुस्तमाहेत्याह-संहर्षादिति, स्पर्द्धया तु गुह्योऽप्यर्थो विजयार्थमभिधीयत इति भावः ॥ १२ ॥ पिण्डेनेति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy