________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६८
चरक-संहिता। रोगभिपग्जितीयं विमानम् प्रत्यक्षादिप्रमाणेष्वनुमानघटकत्वेन प्रामाण्यसिद्धावपि तकस्य प्रमाणोपसंगृहीतवादगौतमेन प्रमाणान्तरवाभावाच प्रमाणानामनुग्राहकलात तु पृथगुक्तिः कृता। तेन प्रमाणैस्तकेण च यत्र पक्षप्रतिपक्षपरिग्रहे साधनोपालम्भौ क्रियेते स प्रमाणतर्कसाधनोपालम्भः पक्षप्रतिपक्षपरिग्रहः सिद्धान्ताविरुद्धः स्वतन्त्रप्रतितत्राधिकरणाभ्युपगमसिद्धान्तरविरुद्धः सिद्धान्तमभ्युपेत्य तदविरोधी विरुद्धो न चेद्भवति। पञ्चाक्यवोपपन्नश्च भवति तदा स वाद उच्यते। तत्र सिद्धान्ताविरुद्ध इति वचनेन हे लाभासनिग्रहस्थानानामभावो वादे ज्ञापितः । पक्षप्रतिपक्षयोः परिग्रहो ह्यभ्युपगमव्यवस्था। पक्षः प्रतिज्ञा। वादिनोद्वयोः पक्षयोरेकाधिकरणयोधैर्मयोः परस्परोपघातिभा प्रतिपक्षता। तौ च द्वौ पक्षौ परस्परं प्रतिपक्षौ। तत्र यः पूर्वः पक्षः स खल वादप्रयत्तकखात् पक्ष उच्यते. परस्नु पास्तद्विरोधिवात् प्रतिपक्ष उच्यते। यथा पूर्वमेकः प्रतिमानीते। वह्निरुष्ण इति। अपरः प्रतिजानीते वहिरनुष्ण इति। इत्येवं पक्षपतिपक्षयोः परिग्रहे प्रमाणेन तर्केण च साधनं स्वपक्षस्थापनापरपक्षस्योपालम्भः प्रतिषेध एवं ताभ्यां विधीयते। तद् यथा-सिद्धान्ताविरोधेन पञ्चभिरवयवैश्च न न्यनाधिकैः पञ्चभ्योऽवयवेभ्यः। तत्र पूर्व पक्षं वहिष्ण इति स्वप्रतिज्ञातं वादी हेतूदाहरणोपनयनिगमनैः स्थापयति सिद्धान्तचतुष्टयाविरोधेन। तत्र वह्निरुष्ण इत्यवाह प्रतिवादी-कस्मात् ? तबाह वादी---दहनात्। क इवत्याह प्रतिवादी। तत्राह वादी ---आतपवत् । कथमित्याह प्रतिवादी। तत्राह वादी यथातप उष्णः स च दहति---तथा वह्निदेहति ; तस्मादुष्णो वह्निरिति प्रत्यक्षेण प्रमाणेन तर्केण च स्वपक्षसाधनमतोऽनुष्णवप्रतिषेधो लभ्यते। इत्येवं पक्षपरिग्रहः सर्वसिद्धान्ताविरुद्धः पञ्चावयवोपपन्नश्च । प्रतिवादी तु तत्प्रतिविध्य स्वपक्षं स्थापयति। न वहिष्ण इति प्रतिषिध्याह वहिरनुष्णः। तत्राह वादी कस्मादिति । रूपमात्रलिङ्गखादित्याह प्रतिवादी। तत्राह वादी क इवेनि। तत्र प्रतिवादी चाह यथा वायुः । कथमित्याह वादी। प्रतिवादी चाह वायुर्यथा स्पर्शमात्रलिङ्गः स चानुष्णस्तथा वह्निश्च रूपमात्रलिङ्गः, तस्मादनुष्ण इति। आप्तोपदेशप्रमाणेन तर्कण च वह्न रूपमात्रलिङ्गत्वं सर्व सिद्धान्तसिद्धं निर्णीयानुष्णवमनुमानेन तर्केण च स्थापयित्वा प्रतिपिद्धमुष्णत्वं वह्न : प्रतिवादिनेति प्रतिपक्षपरिग्रहोऽपि सर्च सिद्धान्ताविरुद्धः बुभुत्सुवादस्तु सन्धायसम्भाषयैवोक्तः। शास्त्रपूर्वकमित्यनेनार्थादिकलहवादं निषेधयति । तत्र वादे विगृह्य सम्भापारूपत्वादेव च्छलजातिनिग्रहस्थानानां विजिगीषाप्रवृत्तानां प्रयोगो लभ्यते ।
For Private and Personal Use Only