________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५५४
चरक-संहिता। रोगभिषगजितीयं विमानम् सर्वगन्धरसरत्नवीजानि यथेरिताश्च देवताः शिवाय स्युरतो. ऽन्यथा वर्तमानस्याशिवाय। इति।। ____ एवं ब्रु वति चाचाय्ये शिष्यस्तथेति ब्रूयात्। तद्यथोपदेशश्च कुर्वन्नध्याप्योऽतोऽन्यथात्वनध्याप्यः।अध्याप्यमध्यापयन्ह्याचार्यो यथोक्तश्चाध्यापनफलैयोगमवाप्नोत्यन्यैश्चानुक्तः श्रेयस्करैर्गुणैः शिष्यमात्मानश्च युनक्ति। इत्युक्तावध्ययनाध्यापनविधी ॥ ११ ॥ ते तव अयमग्निरिति प्रत्यक्षं वर्तमानोऽयमग्निः। तथेति स्वीकारार्थे । यथोक्तैरध्यापनफलैः शास्त्रस्य दृढ़ता अभिधानसौष्ठवार्थ विज्ञानवचनशक्तिरूपैरन्यैधर्मादिभिश्च श्रेयस्करैः फलैः शिष्यमात्मानश्च युनक्तीति। सुश्रुतेऽप्युक्तम्इत्यष्टाङ्गमिदं तत्रमादिदेवप्रकाशितम्। विधिनाधीत्य युञ्जाना भवन्ति प्राणदा भुवि ॥ एतदवश्यमध्येयमधीत्य च काप्यवश्यमुपासितव्यमुभयज्ञो हि भिषगाजा: भवति। भवन्ति चात्र । यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः । स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् । यस्तु कर्मसु निष्णातो धाष्यत् शास्त्रवहिष्कृतः। स सत्सु पूजां नामोति वधश्चाहति राजतः। उभावतावनिपुणावसमर्थौ स्वकर्मणि। अर्द्धवेदधरावेतावेकपक्षाविव द्विजौ। यस्तूभयशो मतिमान् स समोऽर्थसाधने । आहवे कर्म निवौद्रं द्विचक्रः स्यन्दनो यथा। अत्रायमध्यापनविधिः सङ्ख पेण शिष्योपनयनारम्भविधिरुक्तः पूर्व ब्राह्मणादिवर्णविशेषोक्तोपनयनानन्तरं सव्वेंषामायुदाध्ययनसामर्थ्य ततश्च अध्यापनप्रकारस्त्वन्यत्रोक्तस्तद्यथा मनुनोक्तम् । उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः। आचारमग्निकार्यश्च सन्थ्योपासनमेव च । अध्येप्यमाणस्वाचान्तो यथा शास्त्रमुदङ्मुखः । ब्रह्माञ्जलिकुतोऽध्याप्यो लघुवासा जितेन्द्रियः। ब्रह्मारम्भेऽवसाने तु पादौ ग्राह्यौ गुरोः सदा। संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः। व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः। सव्येन सव्यः स्पष्टव्यो दक्षिणेन च दक्षिणः। अध्येष्यमाणन्तु गुरुनित्यकालमतन्द्रितः । अधीष्व भो इति ब्रूयात् विरामोऽस्विति चारमेत् । ब्राह्मणः प्रणवं कुर्य्यात् आदावन्ते च सव्वदा। स्रवत्यनोङ्कतं पूर्व परस्ताच्च विशीयेति । प्राक् पदेवाऽमित्रस्य धन्यादिगुणयुक्तं वचस्तदेवानुविधातव्यं श्रोतव्यञ्च । यथोक्तैरिति शास्त्रान्तरेण, म खिलशास्त्रऽध्ययनफलं साक्षात् क्वचिदुक्तम् ॥ १०॥३॥
For Private and Personal Use Only