________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४म अध्यायः विमानस्थानम् ।
१५५३ । न चैव ह्यस्त्यायुव्वेदस्य पारम्, तस्मादप्रमत्तः शश्वदभियोगमस्मिन् गच्छेत् । एतच्चैवंकार्यमेवं भूयः प्रवृत्तस्य सौष्ठवम् अनसूयता परेभ्यो वाप्यागमयितव्यम्। कृत्स्नो हि लोको बुद्धिमतामाचार्य्यः, शत्रुश्चाबुद्धिमताम् अतश्चाभिसमीक्ष्य बुद्धिमताऽमित्रस्यापि धन्यं यशस्यमायुष्यं पौष्टिकं लौकिकम् अभ्युपदिशतो वचः श्रोतव्यमनुविधातव्यञ्चेति ॥ १०॥ ___ अतः परमिदं ब्रूयात्। देवताग्निद्विजगुरुवृद्धसिद्धाचार्येषु ते नित्यं सम्यग् वर्तितव्यम् । तेषु ते सम्यगवर्त्तमानस्यायमग्निः यद्यात्मश्लाघां करोति तदा तेन अनेके उद्विजन्ते सुतरामनाप्तपुरुषो नात्मश्लाघां कुर्यात् ॥९॥
गङ्गाधरः-ननु कुन आप्तोऽपि नात्मश्लाघां कुर्यात् इति ? अत आह-न चैव हीत्यादि। हि यस्मादायुवेदस्य पारं न चैवास्ति सुतरामाप्तोऽपि नात्मश्लाघां चिकित्सायां कत्तुं शक्नोतीति भावः। तस्मादायुवेदपाराभावादात्मज्ञानेन ज्ञानवत्तया श्लाघां न कृता अप्रमत्तः प्रमत्तो न भूखा शश्वत् नित्यम् अप्रमादेनाभियोगमसर्व वित्तयास्मिन्नायुव्वेदै योगं गच्छेत् । एतच उक्तं यदयदेवं कार्यमुक्तकार्यमुक्तरूपेण भूयः प्रत्तस्य परस्य सौष्ठवमनस्यता खया परेभ्यो वापि शिष्येभ्य आगमयितव्यमुपदेशो ग्रहीतव्यः। हि यस्मात् कृत्स्नो लोकः सव्वो जनो बुद्धिमतामाचार्यः । अबुद्धिमतान्तु सयौं जनः शत्रुरित्यतो बुद्धिमता पुरुषेणामित्रस्य शत्रोरपि धन्यादिकं वचः श्रोतव्यमनुविधातव्यमिति ॥१०॥
गङ्गाधरः--अतः परमित्यादि। अनुशासनानन्तरम् । तेषु देवतादिषु तत्र श्लाघा कर्तव्या। आप्तादपि हीत्यत्राप्तः सत्यवागुच्यते, अन्यत्रापि सत्यमेवाप्तं वक्ष्यति, यथाकालप्राप्तमेव ब यादित्यर्थः ॥९॥
चक्रपाणिः-न चैव होत्यादि। यस्मादायुर्वेदोऽपि ज्ञातु न शक्यते प्रायस्तेनायुर्वेदज्ञानार्थमुद्यम गच्छेत् । अस्मिन्निति दुस्तरे आयुर्वेदे। अनुक्तसदवृत्तकरणार्थमाह-एत. च्चेत्यादि। एतच्चेति “अथैनमग्निसकाशे" इत्यादिग्रन्थोक्तमनुष्ठेयम् । एवम्भूयश्च वृत्तसौष्ठवमिति उक्तसदृशञ्च साधुवृत्तमित्यर्थः। लौक्यं लोकानुमतम् । 'इति'शब्दोऽवधारणे। तेन
१९५
For Private and Personal Use Only