________________
Shri Mahavir Jain Aradhana Kendra
१५४८
www.kobatirth.org
..
ww
चरक संहिता [ रोगभिषग्जिनीयं विमानम् एवंविधमध्ययेनार्थिनमुपस्थितमारिराधयिषुमाचार्य्यं श्वानुभाषेत ' ' ' अथ उदगयने शुक्लपक्षे प्रशस्तेऽहनि तिष्यहस्तश्रवणाश्वयुजामन्यतमेन नक्षत्रेण योगमुपगते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मृहूते मुण्डः कृतोपवासः स्नातः कषायवस्त्रसंवीतः सन् समिधोऽग्निमाज्यमुपलेपनमुदकुम्भांश्च सुगन्धिहस्तो माल्यदामदी पहिरे एयरजतमणिमुक्ताविद्र मनौमपरिधींश्च कुशलाजसर्षपाक्षतांश्च शुक्लाश्च सुमनसो ग्रथिताप्रथिता मेध्यांश्च भच्यान् गन्धांश्च घृष्टानादायोपतिष्ठस्व इति । अथ सोऽपि तथा कुर्य्यात् ॥ ७ ॥
तमुपस्थितमाज्ञाय समे शुचौ देशे प्राक्प्रवणे उदक्प्रवर वा चतुष्किष्कमात्रं चतरथं स्थण्डिलं गोमयोदकोपलिप्तं
Acharya Shri Kailassagarsuri Gyanmandir
+
सर्व्वथा तत्तत्र विद्यालाभः स्याव यथा यथा गुणः स्यात् तथा तथा विद्यालाभः स्यादिति तु हृदयम् ॥ ६ ॥
• गङ्गाधरः ननु किमेवम्भूतं शिष्यमन्विष्य परीक्ष्य स्वयमानीयाध्यापयेदित्यत आह- एवंविधमित्यादि । एवंविधं विद्यार्थिनं गुरुमारिराधयिषु स्वयमुपस्थितमनुभाषताचाय्र्यः । किं भाषेतेत्यत आह-- अथोदगयने इत्यादि । उदगयने उत्तरायणे माघादियामासाभ्यन्तरे प्रशस्तेऽहनि ज्योतिःशात्रोक्ततिथियुक्तवारे शशिनि कल्याणे शुभे मुण्डः मुण्डितशिराः उपतिष्ठस्वेति अनुभाषेत इत्यन्वयः ॥ ७॥
• सङ्गाधरः- तमित्यादि । चतुरथं चतुष्कोणं चतष्किकुमानं तथा चैकैक दिशि
For Private and Personal Use Only
चक्रपाणि:- तिष्यः पुण्यानक्षत्रम् । अश्वयुगश्विनी । शशिनि कल्याण इति उक्तनक्षत्रेष्वध्ययनार्थिनो यतः शशी कल्याण करो भवति, उदित एव शशिन्यध्ययनं कर्त्तव्यम् । मैत्रे मुहूर्ते इत्यनुकूले मुहूर्ते, मुहूर्त्तादयश्च शिवभुजयादयः । मुण्डः कृतवापनः । गम्धेन हस्तः पञ्चाङ्गलो गन्धहस्तः । हिरण्यशब्देनाघटितं हेम गृह्यते, हेमशब्देन च घटितम् । परिधयो हस्तप्रमाणा होमकुण्ड चतुः पार्श्वे स्थाप्याः पालाशादिदण्डा उच्यन्ते । अत्र चोपार्जितवस्तुसान्निध्य मेव फलप्रदमिति ऋषिवचनादुनीयते, तेन भन्योपाहृतमपीष्टगन्धादि नोनावनीयम् ॥ ७ ॥