________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः विमानस्थानम् ।
१५४७ अमिन्मिणम् धृतिमन्तमलङ्कतं मेधाविनं वितकस्मृतिसम्पन्नम् उदारसत्त्वं तद्विद्यकुलजमथवा तद्विद्यवृत्तं तत्त्वाभिनिवेशिनम् अव्यङ्गमव्यापन्नेन्द्रियं निभृतमनुद्धतमर्थतत्त्वभावकम् अव्यसनिनमकोपनम् शीलशौचाचारानुरागदाच्यदाक्षिण्योपपन्नम् अध्ययनाभिकाममर्थश्ज्ञिाने कर्मदर्शने चानन्यका-मलुब्धम् अनलसं सर्वभूतहितैषिणमाचार्य्यसर्वानुशिष्टिप्रतिपत्तिकरम् अनुरक्तम् एवंगुणसमुदितमध्याप्यमाहुः ॥ ६॥
ओष्ठौ च यस्य तं तथा। अमिन्मिणं सानुनासिकवाक्यवचनशीलरहितम् । धृतिमन्तं काय्ये मनोनियमात्मिका बुद्धिर्यस्य तम्। अलङ्कतं भूपायुक्तम् । मेधाविनं धारणावती बुद्धियस्य तम् । वितकस्मृतिसम्पन्नं ऊहापोहाभ्यां स्मृत्या च सम्पन्नम्। उदारसत्त्वं मनस औदार्य महत्त्वं यस्य तम् । तद्विद्यकुलजं तदायुव्वेंदीयतन्त्रव्यवसायिनां कुले जातम् । अथवा तद्विद्यवृत्तं तस्मिन् तन्त्रेऽधीते जायते या विद्या सा विद्या यस्य स तद्विद्यस्तेन वृत्तम् उपाज्जितार्थेनावर्त्तत यस्तम्, तत्वाभिनिवेशिनं यथार्थवेऽभिनिवेशो मृषार्थे खन्यथावं यस्य तं तथा। अव्यङ्गम् अङ्गेनाहीनम् । अव्यापन्नेन्द्रियम् इन्द्रियव्यापद्रहितं, सुष्टु सर्बेन्द्रियमित्यर्थः। निभृतं गुप्तरूपम्। अनुद्धतमप्रगल्भरूपम्। अर्थतत्त्वभावकमर्थतत्त्वस्य स्वभावतश्चिन्ताशीलमव्यसनिनं दातादिव्यवहाररहितम् । अकोपनम् । शीलं सच्चरितं दाक्षिण्यं सर्वत्रानुकूलशीलता। अर्थविज्ञाने अध्याप्यतन्त्रार्थविज्ञाने अन्यकार्य्यरहितम्, कर्मदर्शने चिकित्साक्रियादर्शनेऽन्यकायरहितश्च। अलब्ध भोजनादिषु लोभहीनम् आचार्यसानुशिष्टिप्रतिपत्तिकरम् आचार्येण यदयदनुशिष्यते तत्तत् सर्वमनुशासनं प्रतिपन्नं करोति यस्तमित्यर्थः । अनुरक्तमाचार्यानुरक्तम् । एवं विधं शिष्यं परीक्षेत। नन्वेतदगुणान्यतमगुणहीनं किं नाध्यापयेदित्यत आह-एवं गुणसमुदितमिति। अन्यतमगुणाभावे हि न
अतो विपरीतलक्षणो हि जड़ो भवति। तद्विद्यवृत्तमित्यायुर्वेदज्ञाचारम् । निभृतमिति विनीतम् । अनुदतमित्यनहङ्कतम्। अनुरागशब्देनाध्ययनानुराग उच्यते। अनुरक्तमित्यनेन च गुरावनुरक्तत्वमुच्यते। दाक्ष्यं दर्शयित्वाप्यनलसमिति यत् करोति, तेन दाक्ष्यादारब्धेऽपि कार्ये बहुप्रयाससाध्येऽनलसमित्याह । अनुशिष्टिप्रतिकरमित्याज्ञाकरम् ॥ ६॥
For Private and Personal Use Only