________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४६
चरक-संहिता। । रोगभिषगजितीयं विमानम् अर्थतत्त्वं स्वदोषपरिहाराय परदोषप्रमाणार्थम् । एवं मध्यन्दिनेऽपराह्न रात्रौ च शश्वदपरिहापयन्नध्ययनमभ्यायेत् । इत्यध्ययनविधिः ॥ ५॥ ___ अथाध्यापनविधिः-अध्यापने कृतबुद्धिराचार्यः शिष्यमेव आदितः परीक्षेत। तद् यथा-प्रशान्तमार्यप्रकृतिकमक्षुद्रकाणम् ऋजुचनर्मखनासावंशं तनुरक्तविशदजिह्वमविकृतदन्तौष्ठम्
स्थिरतया धारणं न स्यादित्युक्तम्। ननु किं वर्णावलिवाक्योच्चारणत एवावर्त्तयेदुत किमन्यथेति ? अत आह—बुद्धप्रत्यादि। अर्थतत्त्वे बुद्धयानुप्रवेशपूर्वकावर्त्तनफलमाह-स्वदोषेत्यादि। ननु केवलं पाह्ने एवाध्ययनं कुर्यात् न चात ऊर्द्ध मित्यत आह-एवं मध्यन्दिने इत्यादि। एवमनेन प्रकारेण मध्यन्दिनादौ चाध्ययनं शश्वन्नित्यमभ्यस्येत् । ननु तत् किं न प्राओं कदाचिदभ्यस्येदित्यत आह--अपरिहापयन्नध्ययनमिति। प्रातरादिकाले यदध्ययनमुक्तं तदध्ययनमपरिहापयन् न परित्यजन् । एतेन तत्कालमध्ययनं सर्वदैव, मध्यन्दिनादौ तु कदाचिदनध्ययनेऽपि न क्षतिरिति ख्यापितम् ॥५॥
गङ्गाधरः-अथ द्वितीयमुपायमध्यापनं विवृणोति-अथेत्यादि। अध्यापने इति। शिष्यचिह्नमाह-तद् यथेत्यादि । प्रशान्तमचञ्चलरूपम् । आय्येप्रकृति ब्राह्मणक्षत्रियवैश्ययोनि पड़ जातिम् । अक्षुद्रकर्माणं नीचकाकर्तारम् । ऋजवः सरलाश्चक्षुषी च मुखश्च नासावंशश्च ते यस्य तं तथा । तनुरस्थूला रक्तवर्णा च विशदा चापिच्छिला जिह्वा यस्य तं तथा। अविकृता यथावज्जाता दन्ता
उपव्युपं वा उत्थायेति योजना। उपव्युषमिति किञ्चिच्छेषायां रात्रौ। मनःपुरःसरीभिरिति एकाग्रमनःप्रगीताभिः। स्वदोषपरिहारपरदोषप्रमाणामिति स्वकीयाध्ययनदोषपरिहारार्थ परकीयाध्ययनदोषप्रमाणार्थ परकीयाध्ययनदोषज्ञानार्थमित्यर्थः । प्रमीयतेऽनेनेति प्रमाणं ज्ञानमात्रमीप्सितम्। सम्यग् बुद्धार्थतत्वं बुद्धा चाधीयानो निर्दोपाध्ययनो भवति, सम्यगध्ययनज्ञानाच्च परस्य सदोषमध्ययनं प्रतिपद्यते। इत्यध्ययनविधिरिति पूवप्रतिज्ञाताध्ययनविधेरुपसंहरणम् । यथोक्तेन विधिनाध्ययनं क्रियमाणं सुसंगृहीतं भवति । दृष्टादृष्टसम्पत्त्याध्ययनकालवर्जनम्, वेदाध्ययने निषिद्धमेवात्रापि तजज्ञेयम्, इति न विशेषेणोक्तम् ॥ ४५ ॥
चक्रपाणिः-इह शिष्यगुणेषु ऋजुचक्षुर्मुखनासावंशत्वादयो गुणाः सहजलक्षणत्वेनोपादेयाः ।
For Private and Personal Use Only