________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
२५४५ शास्त्रस्य- दृढ़तायामभिधानस्य - सौष्ठवेऽर्थविज्ञाने वचनशक्तो च भूयोभूयः प्रयतेत सम्यक् ॥३॥
तत्रोपायाननुव्याख्यास्यामः। अध्ययनमध्यापन लविद्यसम्भाषेल्युपायाः ॥४॥ ...तत्रायमध्ययनविधिः कल्यकृतक्षण; 8 प्रातरुत्थायोपव्युषं.का कृत्वावश्यकमुपस्पृश्योदकं देवर्षिगोब्राह्मणसिद्धवृद्धाचाय्येभ्यो नमस्कृत्य समे शुचौ देशे सुखोपविष्टो मनःपुरःसरीभिर्वाग्भिः सूत्रमनुपरिक्रामन् पुनःपुनरावर्त्तयेत्। बुद्धया सम्यगनुप्रविश्य .. ननु कृत्स्नं तत्रमधिगम्य किं कुर्य्यादित्यत आह, तत्तत्रस्य दृढ़तायाम् अच्युतधारणे विषये अभिधानस्य, प्रवचनस्य सौष्ठवे सौन्दर्य अथ विज्ञाने अध्ययनकाले संशयितार्थस्य निःसंशयविज्ञाने निःसंशयार्थस्य स्थिरतायाश्च वचनशक्तो अनर्गलवचने च ॥३॥
गङ्गाधरः-ननु कथं प्रयतेत इत्यत आह-तत्रोपायानित्यादि। तत्र भूयोभूयोऽधीतशास्त्रप्रयत्ने। उपायान् विकृणोति, अध्ययनमित्यादि ॥४॥...... _गङ्गाधरः - नन्वध्ययनादयस्तावन्तः कीदृशा इत्यतोऽध्ययनादींस्त्रीन् क्रमेण विणोति-तत्रायमित्यादि। कल्यः प्रातःकालस्तत्र कृतः नियतरूपः क्षणो येन स कल्यकृतक्षणः। प्रातररुणोदयकालमुपव्युषं तदुत्तरकालं वा त्थिाय आवश्यक मलमूत्रोत्सर्गमुखधौतदन्तधावनादिकं कम्म कृखा उदकम् उपस्पृश्य स्नाला अशक्ती वस्त्रं त्यक्त्वा पूतो भूखा चोदकेनाचम्य वा आचमनविधिः सदवृत्तेषूक्तः। देवादिभ्यो नमस्कृत्य समे शुचौ देशे अनीचोच्चदेशे शुचिरूपे सुखेन उपविष्टो मनःपुरःसरीभिमनोयोगपूर्विकाभिः सूत्रमनुपरिक्रामन् मूत्रानुपूर्तीकक्रमेण पुनःपुनरावर्तयेत् । आवर्त्तनमभ्यासः शीलनं सततक्रियेति आत्रेयभद्रकाप्यीये प्रोक्तम् । मनःपुरःसरी भिरित्यनेन मनोयोगं विनावर्तनेन तथा तथा गुरुः सेव्यत इति दर्शयति । दृढ़तायामिति शास्त्रग्रहणस्य. स्थैर्ये। अभिधानस्येति शास्त्राभिधानस्य । वचनशक्ती अर्थकीर्तनसामर्थ्य ॥३॥ . . चक्रपाणिः-तत्रेति शास्त्रदृढ़ताडौ, तद्विद्यसम्भाषा. तच्छास्त्राध्यायिना सह · उदग्राहिका। कल्यो नीरोगः। कृतक्षण इत्यनन्यव्यापारत्वेनाध्ययनाय कृतकालपरिग्रहः । प्रातर्वा उत्थाय, ___* कल्या कृतक्षण इति चक्रसम्मतः पाठः ।
१९४
For Private and Personal Use Only