________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.१५४२
[ रोगभिषग्जितीयं विमानम्
चरक संहिता | पुष्कलाभिधानं क्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानं संगतार्थमसकुलप्रकरण माशुप्रबोधकं लक्षणबच्चोदाहरणवच्च तदभिप्रपदेत शास्त्रम् । शास्त्रं ह्येवंविधममल इवादित्यस्तमो विधूय प्रकाशयति सर्व्वम् ॥ २॥
तत्तदर्थानां ग्रन्थनं येन तत् । भाष्यं तेन सूत्रेण यत् अभिधेयं मुक्तकण्ठेन विस्तरेण पुनस्तदवचनं भाष्यम् । तदपि संक्षेपेणातिविस्तरेण च कर्त्तुं सम्भवति । तत्र संग्रहेण यत् तद्भाष्यं भाष्यसंग्रहः तयोः क्रमः पूर्व्वं सूत्र ततः सङ्क्षेपॆण भाष्यं न त्वतिविस्तरेण सुप्रणीतं यत्र तथाभूतं तन्त्रं सूत्रार्थस्यान्यथा व्याख्यानसामर्थ्यं व्याख्यातुः ख्यापितं येन फलापलापः स्यात् । स्वाधारं सुष्ठुधिकरणम् अधिकरणं तत्तदर्थाधिकारः परिच्छेद इत्यर्थः । एतेनान्योन्यमिश्रखाद् दुब्र्बोधत्वं नास्तीति ख्यापितम् । अनवपतितशब्द मित्यनेनाधुनिकत्वाशङ्कानिरासः । अकष्टशब्दं कष्टशब्दं हि श्रुतकटूच्चारणाभ्यासकष्टम् । तदभावे तु बहुप्रकारशब्दरूपं श्रुतसुखखाभ्याससुखत्वार्थं भवति । तत्र चान्यादृशशब्दरूपत्ववारणायाह – पुष्कलाभिधानमिति । पुष्कलेन प्रायेण वर्णावृत्त्याभिधानम् । क्रमागतार्थं क्रमेण यदर्थादुत्तरं यदर्थ उद्दिष्टस्तदर्थादुत्तरमागतः प्राप्तस्तदर्थो यत्र तत् तथा । एतेन प्रकरणशृङ्खलया धारणसुखत्वं सूचितम् । अर्थतत्त्वविनिश्चयप्रधानमित्यनेन निःसन्दिग्धार्थतत्त्वविद्याजनकत्वं ख्यापितम् । सङ्गतार्थं पूर्वाध्यायव्याख्याने दर्शितपड़ विधसङ्गत्या प्रणीतार्थमसड लप्रकरणम् अमिश्रितप्रकरणम्, एतेनाधिकारसौष्ठवेऽपि तत्र प्रकरणपार्थक्यं येनाप्यसन्देहार्थः स्यात् । आशुप्रबोधकं श्रुतमात्रमर्थ बोधजनक शब्दवत् । लक्षणवचोदाहरणवच्च इत्यनेनाध्ययन सुगमत्खमथे तत्त्वावबोधे ख्यापितम् । तथाविधतन्त्रं कुतो हेतोः प्रपदे तेत्यत आह - शास्त्रं हे वमित्यादि ॥ २ ॥
तन्त्रे स्यात् पुनरुक्तम् नेप्यते तद् विभाव्य विवरणम् ।" स्वाधारमिति शोभनाभिवेयम् । अनव पतितमित्यग्राम्य शब्दम् | अकष्टशब्दमिति अकृच्छ्रोच्चार्थशब्दम्, किंवा अप्रसिद्धाभिधेयशब्दम् | पुष्कलाभिधानमिति सम्यगर्थसमर्पकवाक्यम् । क्रमागतार्थमिति पारिपाठ्यागतार्थम् । सङ्गतार्थमिति प्रतिपादितार्थम् । असङ्कुलप्रकरणमिति मिश्रीभूतप्रकरणम् । लक्षणवदिति आयुर्वेदप्रधानार्थ हेतु लिङ्गार्थासाधारणधर्म्मकथनवत् । किंवा प्रशस्तशास्त्रलक्षणवत् उदाहरणवदिति
।
दृष्टान्तवत् ॥ २ ॥
For Private and Personal Use Only