________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
विमानस्थानम् ।
१५४१ परीक्षेत। विविधानि हि शास्त्राणि भिषजां प्रचरन्ति लोकेषु । तत्र यन्मन्येत महद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्ष सुप्रणीतसूत्रभाष्यसंग्रहक्रम स्वाधारमनवपतितशब्दमकष्टशब्दम् काले च वृत्तिकरं किं कर्म युक्तं किं कर्म न युक्तं पूजितमपूजित वा तद्विदिखा युक्तिदर्शनात् यवृत्तेस्तददेशकालोचितत्वेन श्रेष्ठतमत्वं मन्यते तद् दृष्ट्वा भिषगबुभूषुभिषगभवितुमिच्छुः सन्नादितः शास्त्रमायुव्वेदीयेषु बहुषु तन्त्रेषु मध्ये किं तत्रमध्येतव्यं मयेति परीक्षेत। नन्वायुवेद एक एव तस्य कस्मात् हेतोः परीक्षा कार्येत्यत आह-विविधानि होत्यादि । भिषनां शास्त्राणि आयुव्वेदीयानि। तत्र तेषु तन्त्रेषु मध्ये यत् तन्त्रं महदादिकं मन्येत तच्छास्त्रं तन्त्रमभिप्रपदेवतेत्यर्थः। यशस्विभिर्धीरैः पुरुषैरासेवितमित्यनेन तत्तत्रसेविनां तत्पुरुषवद्यशस्विखादयः ख्यापिताः। अर्थबहुलमित्यनेनाल्पकालेनाध्येयत्वेन सम्पूर्णविद्याजनकत्वं ख्यापितम्। आप्तजनपूजितमित्यनेन निर्दोष सिद्धान्तवचनशालि च तत् तत्रमासेवितवतः श्रुतपर्यवदातता स्यादिति ख्यापितम् । त्रिविधशिष्यबुद्धिहितमित्यनेन सर्वजनाध्येयवमुक्तम् । अपगतपुनरुक्तदोषमित्यनेनाध्ययने पुनरुक्तार्थाध्ययनाय यः श्रमस्तस्य वृथात्वं तस्याभावः ख्यापितः। आर्षमित्यनेनाध्ययनेऽपि धर्मादिफलं ख्यापितम्। सुप्रणीतं सुष्टु रचितं सूत्रस्य भाष्यसंग्रहस्य च क्रमो यत्र तत् तथा। सूत्रं सझे पेण भवितुमिच्छुः स्यात्, तदा शास्त्रं तावदादितः परीक्षेत। एवं मन्यते-य आयुर्वेदाध्ययनलक्षणे कार्य स्वशक्तःपेक्षया गौरवं मन्यते, स न वर्त्तते, यश्चायुर्वेदफलेनारोग्यादिना अर्थो न भवति, स च, तथा यश्चानुपादेयायुर्वेदज्ञाने देशे स्थितः, स च, तथा यस्य च वपुषो वार्धक्यलक्षणः कालः, स धायुर्वेदाध्ययनान्तगमनाशक्तत्वादेव यथोक्तानुपपत्तिदर्शनाद भिषगभवितु नेच्छति। अतो न तान् प्रति आयुर्वेदशास्त्रपरीक्षा अप्युपदिशामः। यस्तु यथोक्तविपरीतभर्मयोगी, स चायुर्वेदाध्ययनोपादानाद् भिषगबुमूषुः शास्त्र परीक्षेत। विविधानीत्यगुणवन्ति । सुमहद यशस्वि च धीरपुरुषासेवितज। किंवा, सुमहद्यशस्विधीरपुरुषैरासेवितमिति विग्रहः । भाप्तजनपूजितमिति बहुविधैराप्तैर्यथार्हमनुमतम्। उत्कृष्टमध्याल्पबुद्धयः त्रिविधाः शिष्याः । मनपगतपुनरुत्तमिति कर्तव्ये यद् दोषपाठं करोति, तेनाधिकरणवशप्राप्तं यत् करोति, तेनापि पुनर तमदोषं भवति । वचनं हि-“अधिकरणवशाद दीर्घाद गुणदोषप्राप्तितोऽर्थसम्बन्धात् । स्तुत्यर्थ संशयतः शिष्यधियाञ्चातिवृद्धयर्थन। भस्पतोऽन्तरितत्वात् विशेषणेष्वपि च तन्त्रकृतिस्तु । यत्
For Private and Personal Use Only