________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टमोऽध्यायः ।
अथातो रोग भिषग्जितीयं विमानं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥
बुद्धिमानात्मनः कार्य्यगुरुलाघवे कर्म्मफलमनुबन्धं देशकालौ च विदित्वा युक्तिदर्शनाच्च भिषगबुभृषुः शास्त्रमेवादितः
गङ्गाधरः- अथ व्याधिविज्ञाने रसादिविमानानां दोषादिमानज्ञानहेतुत्वेऽपि विना भिषग्भावं न तैर्व्याधिविज्ञानं भवतीत्यतः शेषं रोगभिषग्जितीयं विमानमाह - अथात इत्यादि । रोगाणां भिषग्जितं भेषजं युक्तियुक्तं चतुष्पादमाह स्म । तत्र भिषक् प्रधानतया उक्त इत्यत एवात्र भिषग्जितशब्देन पिवोच्यते तदधिकृत्य कृतं विमानमिति ॥ १ ॥
गङ्गाधरः- बुद्धिमानित्यादि । बुद्धिमान पुरुषः आत्मनः स्वस्य कार्याणां त्रिविधैषणीयानां गुरुलाघवे बह्वायासाल्पायासाभ्यां क्रियानिष्पत्तौ वृत्तिकरं लोकानां यद्यत् कर्म राज सेवादिकमस्ति तस्य तस्य कर्म्मणः फलनिष्पत्तिः किं बहायासतः किमल्पायासतः सिध्यतीति कार्य्यगुरुलाघवं विदित्वा तस्य च कर्म्मणः फलं किं धर्म्ममात्रं किमर्थमात्रं किं काममात्रं किं मुक्तिमात्रं किं द्विफलं त्रिफलं चतुः फलं वा तद्विदित्वा अनुबन्धं तस्य कम्मेणः फलस्य उत्तरकालं कियन्त सम्बन्धस्तश्च विदित्ला देशकालौ च कस्मिन् देशे कस्मिन् व्याधितरूपभ्रान्तिज्ञानमुक्तम्, तच्च बुद्धिदोषाट् भवति, सेन विशुद्धबुद्ध उत्पाद हेतूनामध्य यनाध्यापनतद्विद्यसम्भाषाणां रोगभिपराजितीयोऽभिधीयते । रोगभिषग्जितं चिकित्सितमधिकृत्य कृतोऽध्यायो रोगभिषग्जितीयः । रोगचिकित्साका रित्वञ्चास्य, चिकित्सोपयुक्तस्य सम्यग्ज्ञानसाधनसाध्यस्याध्ययनविध्यादेः तथा करणकारणादेवाभिधानाद ज्ञेयम् ॥ १ ॥
चक्रपाणिः - पूर्वाध्याये
चक्रपाणिः - इहाध्ययनविध्यादिषु कर्त्तव्येषु याहक शास्त्रमध्येयम्, तदेवायुर्वेदार्थिपुरुषमुपदर्थं दर्शयन्नाह - बुद्धिमानित्यादि । कार्य्यं कर्त्तग्यम्, तस्य गौरवञ्च बहुप्रयाससाध्यत्वेन लाघवं वा स्वल्पप्रयाससाध्यत्वेनेति कार्य्यगुरुलाघवम् । कर्मफलमिति कार्य्यफलम् एतच्च तादात्यिकं फलमीप्सितम् । अनुबन्धमिति काय्र्यस्यैवायतीयं फलम् । देशकालाविति कर्त्तव्य कार्य्यानुगुणी देशकाला वित्यर्थः । एतत् सर्व्वं विदित्वा । युक्तिदर्शनादुपपत्तिदर्शनात् । यदि भिषग्
For Private and Personal Use Only