________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् ।
१५३६ ___तत्र श्लोको। व्याधितौ पुरुषो ज्ञाज्ञो भिषजौ सप्रयोजनौ। विंशतिः क्रिमयस्तेषां हेत्वादिः सप्तको गणः॥
उक्तो व्याधितरूपीये विमाने परमर्षिणा । शिष्यसम्बोधनार्थाय व्याधिप्रशमनाय च ॥ १७॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते विमानस्थाने
व्याधितरूपीयं विमानं नाम सप्तमोऽध्यायः ॥७॥ गङ्गाधरः- अध्यायार्थमुपसंहरति-तत्रेत्यादि। सप्तको गण इति सप्त योगाः ॥१७॥
अध्यायं समापयति । अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे व्याधितरूपीयविमान
जल्पाख्या सप्तमी शाखा ॥७॥ इत्यर्थः। एतदेवापकर्षणादित्रयं रोगान्तरे शब्दान्तरेणोच्यत इत्याह-अयमेवेत्यादि । अत्र संशोधनमपहरणम्, संशमनं विघातः। निदानवर्जनन्तु शब्देनापि समानम् ॥ १४-१७ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां व्याधितरूपीयविमानं नाम सप्तमोऽध्यायः ॥ ७ ॥
For Private and Personal Use Only