________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दम अध्यायः
१५४३
विमानस्थानम् । ततोऽनन्तरमाचार्य परीक्षेत। तद् यथा-पर्यवदातश्रुतं परिदृष्टकार्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्बेन्द्रियोपपन्नं प्रकृतिज्ञ प्रतिपत्तिज्ञमुपस्कृतविद्यम् ® अनहङ्कतम् अनसूयकमकोपनं क्लेशनम शिष्यवत्सलमध्यापर्क
गङ्गाधरः-तत्रपरीक्षानन्तरं तबाध्ययननिमित्तमाचार्य्यपरीक्षणमाहततोऽनन्तरमित्यादि। पर्यवदातश्रुतमित्यादिकरूपेणाचार्य जानीयात् । पर्य्यवदातश्रुतबादिका हि गुणा आयुर्वेदाचार्याभिप्रायेणोक्ताः प्रस्तुतखात्, न तु सर्ववेदाचार्याभिप्रायेण। यः पूर्व गुरुतोऽधीतायुव्वेदीये तत्तन्त्रे पर्यवदातः शास्त्रार्थतत्त्वनिश्चये सन्देहशून्यः। परिदृष्टकर्माणं सर्वतोभावेन गुरोः कृतचिकित्साकर्म स्वकृतकर्म च फलाफलतो दृष्टवन्तम् । दक्षं वमनादिस क्रियासु कुशलम् । दक्षिणमनुकूलस्वभावम् । शुचिम् । जितहस्तं हस्तेन यत् कम्मे चिकित्सार्थ करोति तत् कर्म झटिति सिध्यतीति तं जितहस्तम्। उपकरणवन्तं वस्तिनेत्रशस्त्रादुरपकरणवन्तम् । सव्वेंन्द्रियोपपन्न न तु हीनेन्द्रियम् हीनेन्द्रियत्वे हि न परीक्षोपपद्यते न वाध्यापनमुपयुज्यते । प्रकृतिक्षमिति व्याधितानां व्याधिप्रतिकारे स्वस्थानां वा स्वास्थ्यरक्षणे पुंसां प्रकृतिशानमन्तरेण न क्रियोपयोगः सम्पद्यते। प्रकृतिर्हि स्वास्थ्ये पुंसां स्वभावः सत्त्वशरीरयोः सात्त्विकादिरूपा समवातपित्तकफात्मकखरूपा च । प्रतिपत्तिमिति यस्य स्वस्थस्यातुरस्य वा यादृशी प्रतिपत्तिः क्रियादिष. प्रतिराहारविहारयोः तां हि न शाखा चिकित्सितु नोपयुज्यते पुमान् । उपस्कृतविदं तदायुर्वेदीयतविद्या येन तदर्थपय्येवदातत्वेनोपाज्जेिता पुनरुपस्कृता शास्त्रान्तरसमूहाध्ययनेन संहतीकृता वा भूपणीकृता वा दृढ़तायां पुनःपुनः प्रतियतिता वा तर्कान्वितीकृता वा तश्चाचाय्यतयैवोरीकुर्यात् इत्युपस्कृतविद्यमाचार्य विद्यात् । अनुपस्कृतविद्यमिति पाठे तु अविकृतीभूता यस्य विद्या तमाचार्य विद्यात् । अनहंकृतमित्यमत्सरं मात्सर्यन्तु लोके गहितं शिष्याणामध्यापनेऽपि तुच्छखसम्भवात्। अनसूयक परगुणेषु दोषारोपणेन.
चक्रपाणिः-अध्येतव्यं शास्त्र परीक्ष्य यस्मात् तत् शास्त्रमध्येतव्यम्, तस्याचार्य्यस्य परीक्षामाह-तत इत्यादि। दक्षमिति अवामबुद्धिम् उपकरणवन्तमित्यनेनानुपकरणे गुरौ चिकित्सा__ * अनुपस्कृतमिति चक्रः ।
For Private and Personal Use Only