________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३६
चरक-संहिता। [व्याधितरूपीयं विमानम् विडङ्गकषाये सुखोष्णे निर्वापयेदा दोषगमनात्। गतदोषानभिसमीक्ष्य सुप्रशनान् प्रलुच्य पुनरेव निष्पूतान् शोधयित्वा विडङ्गकषायण त्रिसप्तकस्वः सुभावितानातपे शोषयित्वोदूखले संक्षुद्य दृशदि पुनः श्लक्ष्णपिष्टान् कारयित्वा द्रोण्यामभ्यवधाय विड़ङ्गकषायेण मुहम्म हरवसिञ्चन् पाणिमर्दमेव मईयेत् । तस्मिंस्तु खलु प्रपीड्यमाने यत् तैलमुदियात् तत् पाणिभ्यां पर्यादाय शुचौ दृढ़े कलसे न्यस्यानुगुप्तं निधापयेत्। ___ अथाहरेति ब्रूयात् तिल्वकोदालकयोझै विल्वमात्रौ पिण्डौ श्लक्षणपिष्टौ विड़ङ्गकयायेण तदर्द्धमात्रौ श्यामात्रिवृतयोरतोऽर्द्धमात्रौ दन्सीद्रवन्तोरतोऽर्द्धमात्रौ चयचित्रकयोरित्ये। सम्भारं विडङ्गकषाय यादकमात्रेण प्रतिसंगृह्य, तत्तैलप्रस्थं समावाप्य सर्वमालोड्य महति पर्यगे समातिच्याग्नावधिश्रित्य आसने सुखोपविष्टः सर्वतः स्नेहमवलोकयन्नजस्र मृद्वग्निना साधयेत् निळपितान् शीतीकृतान आ दोषगमनात् तिलानां दोषगमनपर्यन्तं सुप्रशूनान् सुप्रस्फीतान् प्रलच्य अपनीय त्रिःसप्तकृत एकविंशतिवारान्। एवंप्रकारेण निष्पन्नतिलतैलं प्रस्थमितम्। तिल्वकं लोघ्रम् उद्दालको बहुवारः; अनयोः प्रत्येक द्विपलं विडङ्गकपायेण पिष्टाविति तदद्धमात्रावित्यादौ सर्वत्र योज्यम् । तेन तिल्वकस्य पलद्वयम् उद्दालकस्य पलद्वयं श्याममूलत्रिन्मूलस्य पलम् अरुणमूलत्रिन्मूलस्य पलं दन्तीमूलस्याद्रपल नागदन्तीमूलस्याईपलं चव्यस्य कश्चित्रकमूलस्य कर्ष इत्येतत्सम्भारं कल्कं विङ्गकपायेणा ढकमात्रेण प्रतिसंगृह्य पेषयित्वा तस्मिन पूर्वोक्तविडङ्गकाथतिलसम्पीड़िते प्रस्थे तैले गर्भ दत्त्वा तद् विडङ्गकपायस्याष्टशरावैः प्रतिसंगृह्य समालोड्य सर्व मह ति स्थात् घटात्। निष्पूयेति मृत्तिकाद्यवकरान्निचित्य । शोधयित्वेति प्रक्षाल्य । आ दोषगमनादित्यत्र तिलदोषगमनं तिलत्वग्लग्नमलादिगमनं ज्ञेयम्। प्रलुच्य निस्तूषीकृत्य। अभ्यवधायेति आरोग्य। पाणिभ्यां पर्यादायेति पाणिलग्नं पुनःपुनर्गृहीत्वा । उद्दालको बहुवारः। विल्बमात्रौ पलप्रमाणौ। पयंगः कटाहः। यथास्वमिति
For Private and Personal Use Only