________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः विमानस्थानम् ।
१५३५ लिप्ते समात्राप्योड़ पेन पिधाय भूमावाकण्ठं निखातस्य स्नेहभावितस्यैवान्यस्य दृढ़स्य कुम्भस्योपरि समारोप्य समन्ताद गोमयैरुपचित्य दाहयेत्। स यदा जानीयात् साधु दग्धानि गोमयानि, गलितस्नेहानि भल्लातकास्थीनि ततस्तं कुम्भम् उद्धरेत्। अथ तस्माद् द्वितीयादेव कुम्भात् तं स्नेहमादाय विङ्गतण्डुलचूर्णैः स्नेहार्द्धमात्रैः प्रतिसंस्सृज्यातपे सर्वमहः स्थापयित्वा ततोऽस्मै मात्रां प्रयच्छेत् पानाय। तेन साधु विरिच्यते, विरिक्ताय चानुपूर्वी यथोक्ता। एवमेव भद्दारुसरलकाष्ठस्नेहानुपकल्प्य पातु प्रयच्छेत् ॥ १४ ॥
अनुवासयेच्चैनमनुवासनकाले । अथाहरेति ब्रूयात् शारदान् नवांस्तिलान् सम्पदुपेतान् आहृत्य सुनिष्पूतान् शोधयित्वा उदृखले स्नेहभाविते तैलादिभावित कलसे सूक्ष्माणि अनेकच्छिद्राणि अध्ने गुददंशेऽर्थात् तलदेशे यस्य तस्मिन् तथा। मृदा सर्वतो लिप्ते तानि कुट्टितभल्लातकास्थीनि समारोप्य उडुपेन कदलीक्षपटलेन शरावाद्याच्छादनेन मुखमस्य पिधाय धूमो यथा न निगछेत् । भूमौ गर्त्त कृखा स्नेहभावितदृढ़कुम्भान्तरमाकण्ठं निखातीकृत्य तस्य कुम्भस्योपरि तं भल्लातकास्थिपूरितकुम्भमारोप्य समन्तात् चतुद्दिक्षु गोमयैः कारीषैरुपचित्य आचितं कृता दहेत्। द्वितीयादिति तलस्थकुम्भात्। स्नेहः स एव भल्लातकस्नेहोऽद्धमानं यत्र तैविडङ्गचूर्णः विडङ्गचूर्णस्य द्वौ भागो भल्लातकस्नेहस्य चैकभाग इत्येवं मिश्रयिखा सर्च चतुःप्रहरदिनं स्थापयिखा यथोक्तेऽपि उपकल्पनीये विरेचनाधिकारोक्ता। योगान्तरमाह-एवमेवेत्यादि । स्पष्टम् ॥ १४ ॥
गङ्गाधरः---अनुवासयेदित्यादि । शारदानित्यादिना योगान्तरम् । सम्पदउपेतान् जन्तुजग्धवादिदोपरहितान् निष्पूय धौतादिकं कृता निस्तुषीकृत्य वेष्टेयति वेष्टयित्वा। उलुपः पिधानम् । स इति भल्लातकस्नेहसाधकः । द्वितीयादिति अधः
• निष्पूय सुशुद्धानिति पाठान्तर क्वचित् दृश्यते ।
For Private and Personal Use Only