________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३४
चरक संहिता। व्याधितरूपीयं विमानम् मलकहरीतकीविभीतकस्वरसेषु कारयेत् पूपलिकाः स्वरसांश्च एषामेकैकशो द्वन्द्वशः सर्वशो वा मधुविलुलितान्छ प्रातरनन्नाय पातु प्रयच्छेत् ॥ १३॥ ___अथाश्वशकृदाहृत्य महति किलिञ्जके प्रस्तीर्यातपे शोषयित्वोदूखले क्षोदयित्वा दृशदि पुनः सूक्ष्मचूर्णानि कारयित्वा विडङ्गकषायेण त्रिफलाकषायेण वाष्टकृत्वोदशकृत्खोवातपे सुपरिभावितानि दृशदि पुनः सूक्ष्मचूर्णानि कारयित्वा नवे कलसे समावाप्यानुगुप्तं निधापयेत् । तेषान्तु खलु चूर्णानां पाणितलं चूर्णं यावद्वा साधु मन्येत, तत् नौद्रण संसृज्य क्रिमिकोष्ठिने लेढुं प्रयच्छेत्। तथा भल्लातकास्थीन्याहृत्य कलसप्रमाणेन चापोथ्य स्नेहभावित हड़े कलसे सूक्ष्मानेकच्छिद्रबध्ने। मृदावकिणिही अपामार्गः, सुवहा शेफालिका, पूपलिका इति कारयेदिति पूव्वेणापि चान्वेतव्यम्। भक्ष्यविधिमुक्त्या भक्षणविधिना औषधविधिमाह--स्वरसांश्चैषामित्यादि। एषां मूषकपादीनाम् अनन्नाय अभुक्तवते शून्यकोष्ठायेत्यर्थः ॥१३
गङ्गाधरः-- अथाश्वशकदित्यादि । किलिञ्जकः पिटोटोकः, चुवडीति लोके । अष्टकृखोऽष्टवारान दशकृतो दशवारान वा आतपे सुपरिभावितानि यावता विडङ्गकपायेण त्रिफलाकषायेण वा तानि चूर्णान्याभूयैकतां व्रजेत् तावता तेन कपायेण भावयित्वा शुष्कीकृतानि पुनराीकृत्य शोषणं भावना अनुगुप्तं तं कलससुखमाच्छाद्य वातादीन निवार्य निधापर्यत्। पाणितलं कर्षमात्रम् । यावद्वति व्याध्यादिवलानुसारेणाल्पाधिकाभ्याम्। योगान्तरमाह-तथा भल्लातकेत्यादि। कलसप्रमाणेन द्वात्रिंशच्छरावमानेन आपोथ्य कुट्टयित्वा पिप्पल्यादिपञ्चवर्गोऽत्रैव पेयादिक्रमोक्तपञ्चकोलम्। सहचरो झिण्टिकी। मधुविलिखितानिति मधुनालोड़ितान् ॥ १३ ॥
चक्रपाणिः-सुपरीत्यादि। यथा सुपरिभावितानि भवन्ति, तथा भावयित्वेत्यर्थः । अनुगुप्तमिति वातायननुगमनीयं कृतरक्षञ्च यथा भवति। व्रनो गुदः, इह तु कलशाधोभागे। शरीरमुप* मधुविलिखितानिति वा पाठः ।
। शरीरमुपवेष्टेवत्यधिकः पाठः क्वचित् ।
For Private and Personal Use Only