________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः विमानस्थानम् ।
१५३३ शीर्षादान क्रिमीन् मन्येत, शिरस्येवाभिसर्पतः कदाचित्, ततः स्नेहस्वेदाभ्यां शिर उपपाद्य विरेचयेदपामार्गतण्डुलादिना शिरोविरेचनेन ॥ १२ ॥
यरत्वभ्यवहार्यो विधिः प्रकृतिविघातायोक्तः क्रिमीणाम्, अथ तमनुव्याख्यास्यामः। मृषिकपणी समूलाग्रप्रतानामाहृत्य खण्डशशळदयित्वा उदूखले क्षोदयित्वा पाणिभ्यां पीडयित्वा रसं गृह्णीयात् । तेन रसेन लोहितशालितण्डुलपिष्टमालोड्य पूपलिकां कृत्वा विधूमेष्वङ्गारेषु वियाच्या विङ्गतैललवणोपहितां क्रिमिकोष्ठाय भक्षयितुं प्रयच्छेत्। तदनन्तरञ्चाम्लकाञ्जिकमुदश्विपिप्पल्यादिपञ्चवर्गसंस्कृष्टं सलवणमनुपाययेत् । तां खलु एतेन कल्पेन मार्कवार्कसहचरनीपनिर्गुण्डीसुमुखसुरसकुठेरकगण्डीरकालमालपर्णासनवकफणिजझकवकुलकुटजसुवर्णक्षीरीस्वरसानामन्यतमे कारयेत् । तथा किणिही किराततिक्तसुवहाविरेचन विषयक्रिमिव्याधितमाह-यदीत्यादि । शीर्षादान शिरोजातान् शिरोभक्षकान स्नेहस्वेदाभ्यां शिर उपपाद्य शिरसि स्नेहस्वेदी कृखा ॥१२॥
गङ्गाधरः-आकर्षणमुक्त्वा ततोऽस्य प्रकृतिमलादिविघातायोक्तो यो विधिः तम्। अभ्यवहार्यमाह-मूषिकपर्णीमित्यादि। पूपलिका शटकुलौं निर्दू मेषु अङ्गाराग्निषु उदश्वित् अद्वौदकतकं ( उदकीकृत्य उदकतया कल्पयित्वा ) पिप्पल्यादिपञ्चवर्गसंसृष्टं पञ्चकोलचूर्णसंयुक्तं सलवणं ससैन्धवमनुपाययेत्। शेष भक्ष्यविधिमाह-ताम् इत्यादि। एतेन उक्तेन। मार्कवं भृङ्गराजः, अर्कः श्वेतः, सुमुखः शाकविशेषः, कालमालः कासमद्देः । तथेत्यादिना शेषानाह-किणिहीत्यादि। हि वैद्यकव्यवहारात् शैखरिककषाय उच्यते। विलेप्याः क्रमागतमिति कृतयवाग्वादिक्रममित्यर्थः । अपामार्गतण्डुलादिनेत्यपामार्गतण्डुलीयोक्तेन ॥ ११॥१२॥ चक्रपाणिः-मूलकपर्णी शोभाञ्जनम् । उपकुडेयति पाचयित्वा, 'कुड दाहे' इति धातुः पठ्यते ।
* मूलकपर्णीमिति चक्रा।
। उपकुड्योति वा पाठः ।
For Private and Personal Use Only