________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३२
चरक-संहिता। व्याधितरूपीयं विमानम् संशोधन पाययेत् युक्त्या। तस्य विधिरुपदेच्यते--मदनफलपिप्पलीकषाय यार्द्धाञ्जलिमात्रेण त्रिवृताकल्काक्षमात्रमालोड्य अनुपातुमरमै प्रयच्छेत्, तदस्य दोषमुभयतो निर्हरति साधु । एवमेव कल्पोक्तानि वमनविरेचनानि प्रतिसंस्ज्य पाययेदेनं बुद्धया सर्वविशेषानवेक्ष्यमाणो भिषक् ॥ ११ ॥ ___अथैनं सम्यग्विरिक्तं विज्ञायापराह्न शैखरिककषायण सुखोष्णेन परिषेचयेत् । तेन चैव कषायेण बाह्याभ्यन्तरान् सर्वोदकार्थान् कारयेत् शश्वत् । तदभावे कतिक्तकषायाणामौषधानां क्वाथैमूत्रमार्वा परिषेचयेत्। परिषिक्तञ्चैनं निर्वातमागारमनुप्रवेश्य पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरैः सह सिद्धेन यवाग्वादिना क्रमेणोपचरेत् । विलेप्याः क्रममागतञ्चैनमनुवासयेद्विङ्गतैलेनैकान्तरं द्विस्त्रिा । यदि पुनरस्याभिवृद्धान्
करमौषधं पाययेत। उभयतोभागहरमौषधमाह--मदनफलेत्यादि। पिप्पलीशब्दो वीजवाची, न तु ऊपणावाची अत्र बोध्या। उभयतोभागहरणयोगकल्पनार्थ युक्तिं दर्शयित्वा शेषानुभयतोभागहरयोगान् कल्पयितुमाह--एवमेवेत्यादि। प्रतिसंसृज्य संसृष्टानि कृखा ॥११॥
गङ्गाधरः- अथेत्यादि। सम्यविरिक्तं वान्तश्च विज्ञायेत्यर्थः। शैखरिकोऽपामार्गः। सर्बोदकार्थान् स्नानाचमनादिविधानायोदकार्थान् , न खन्यदुदकम्। तदभावे अपामार्गाभावे कदादिरसद्रव्याणां (काथैः)। मूत्रमारैरिति मूत्रमिश्रक्षारैः यवक्षारादाः। सह सिद्धेनेति पिप्पल्यादिकल्कसिद्धेन पेयादिना क्रमणोपाचरणतस्तु विलेपीक्रमं प्राप्तमेनं विडङ्गतैलेनानुवासयेत् । एकान्तरं द्वौ वारौ त्रीन वारान वानुवासयेदित्यन्वयः। त्रिविधसंशोधनविषयमुक्त्वा शिरो
पश्चिमे तृतीयपुटके । संसृज्येति मश्रीकृत्य । शैखरिककषायेणेति विड़ङ्गकषायेण, विडङ्गकषायो
For Private and Personal Use Only