SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः विमानस्थानम् । १५३१ अवघट्टयन् दा । तरिमन् शीतीभूते तृपयुक्तभूयिष्ठेऽम्भसि गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितं स्वर्जिकालवणितमभ्यासिच्य वस्तौ विधिवदास्थापयेदेनम्। तशर्कालर्ककुटजाढ़कीकुष्ठकैटर्यकषायण वा, तथा शिघ्र पीलुकु(तुम्बुरुकटुकासर्षपकषायेण, तथामलकशृङ्गवेरदारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगयोजितेन त्रिरात्रं सप्तरात्रं वा स्थापयेत् । प्रत्यागते च पश्चिमे वस्तो प्रत्याश्वस्तं तदहरेवोभयतोभागहरं अष्टगुणेऽोदकगोमूत्रे सततमेव दळया घट्टयन उत्तोलननिवारणाय पक्त्वा कल्केषु तेषु मूलकादिषु औषधेषु सत्सु उपयुक्तभूयिष्ठेऽम्भसि चतुर्थावशेषे तस्मिन् काथेऽष्टांशशेपे वा सति स्थालीमवताय तं सुखोष्णं कषायं सुपूतं मदनफलवीजविडङ्गकल्कतैलयुक्तं स्वज्जिकालवणयुक्तं वस्ती अभ्यासिच्य पूरयिखा आस्थापयेत् निरूहयेत् । एवं त्रिरात्रं सप्तरात्रं वास्थापयेत् । आस्थापनान्तरयोगमाह तथाकेत्यादि। अर्को रक्तार्कः अलर्को धवलार्कः कैटयं कट्फलम्। एषां काथो द्वितीयमास्थापनम् । तथा तृतीयास्थापनयोगमाहतथा शिग्वित्यादि। चतुर्थास्थापनयोगमाह तथामलकेत्यादि। मदनफलतण्डुलविडङ्गकल्कतैलस्वर्जिकालवणयुक्तेनैषामन्यतमेन काथेन काथविधिः पूर्ववत् । ननु त्रिरात्रं सप्तरात्रं वा यदेवमास्थापयेत् तदा तदहरेव न वमनविरेचनयोः उपयोगः सम्भवतीत्यत आह–प्रत्यागते च पश्चिमे वस्तावित्यादि। शेषदिने उपयोजितवस्तौ प्रत्यागते गुदतो निःमृते सति पुनस्तं पुरुषं प्रत्याश्वस्तं प्रत्याश्वासेन सम्पाद्य तदहरेव उभयतोऽध ऊद्ध ञ्च भागहरं वमनविरेचनोभय उपयुक्तभूयिष्ठे प्रक्षीणभूयिष्ठे इत्यर्थः । गतरसेप्वौषधेष्विति जले संक्रान्तरसेषु । अनेन कषायसिद्धिलक्षणेन यावता जलेन पाकेन चौषधानि गतरसानि भवन्ति तावदेव जलं देयम्, तावांश्च पाकः कर्त्तव्यः, नावश्यं परिभाषया सर्वत्र क्रमं दर्शयति । परिपूतमिति वस्त्रगालितम्। वस्ती चरकादिमानं सिद्धौ वक्ष्यमाणेन ज्ञेयम्। अलर्को मन्दारः । * त्रिरात्रं सप्तरात्रं वेत्यत्र त्रिवारमिति चक्रवृतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy