________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५३०
चरक-संहिता। व्याधितरूपीयं विमानम् दधि-तिल-मत्स्यानूप-मांस-पिष्टान्नपरमान्नकुसुम्भस्नेहसंप्रयुक्तः भोज्यैः सायं प्रातश्चोपपादयेत्, समुदीरणार्थञ्च क्रिमीणां कोष्ठाभिसरणार्थश्च भिषक् । अथ व्युष्टायां रात्रत्रां सुखोषितं सुप्रजीर्णभक्तश्च विज्ञायास्थापनवमनविरेचनैस्तदहरेवोपपादयेत् उपपादनीयश्चेत् स्यात्, सर्वान् परीक्ष्य विशेषान् परीक्ष्य सम्यक् ॥ १०॥ __अथाहरेति ब्रूयात् मूलकसर्षपलशुनकरञ्जशिग्र मधुशिग्र - खरपुष्पाभूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालपर्णा सक्षवकफणिझकानि। साण्यथवा यथालाभं तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन, सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रणाझेदकेनाभिषिच्य साधयेत्, सततम् नन्तरमष्टमे दिने क्षीरगुड़ादिसंप्रयुक्त ज्यः सायं प्रातरिति प्राढ़े चापराह्न च तादृशानि भोज्यानि भोजयित्वा रात्रयां व्युष्टायां वासं कारयित्वा ततो नवमे दिने सुप्रजीर्णभक्तं मुखोपिनञ्च ज्ञाखा सानास्थापनादियोग्यवादिकान् सम्यक् परीक्ष्य विशेषान् सुकुमारवादीन सम्यक परीक्ष्य चेद् यदि स पुरुष आस्थापनादिभिः उपपादयितुमर्हः स्यात्, तदास्थापनवमनविरेचनैस्तदहरेव तस्मिन् नवमे एव दिने उपपाद येदिति ॥१०॥
गङ्गाधरः- नन्वास्थापनादिकं कथमुपकल्पयेदित्यत आह-अथाहरेत्यादि । आहर आहरणं कुर्विति यात्। कानीत्यत आह---मूलकेत्यादि। करञ्जो गोकरञ्जः, शिग्र : शोभाञ्जनः, मधुशिन : रक्तशोभाञ्जनः, खरपुष्पा यमानी,सुमुखः शाकभेदः, गण्डीरं दृभेिदः। सर्वाणि यथालाभं वा मूलकादीनि कुट्टयिता
चक्रपाणिः- कोष्ठाभिसरणार्थमिति क्षीरगुड़ादिलोभेन देशान्तरं परित्यज्य कोष्ठगमनार्थम् । तदहरेवेत्येकस्मिन् दिने, एतच्चैकदिन एव भूरिकर्मकरणं व्याधिप्रभावाद बोध्यम् । एतच्चैकाहेन सर्वकरणं यदि शरीरबलादिसम्पयुक्तः पुरुषो भवति, तदैवं परं कर्तव्यम्, नान्यथेत्याहउपपादनीयश्चेत् स्यादित्यादिना ॥ १०॥ चक्रपाणि-मधुशिग्रुः शोभाञ्जनम्, अत्र वाध्यद्रव्यजलादिमान वाथपरिभाषया कर्त्तव्यम् ।
For Private and Personal Use Only