________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् ।
१५२४ प्रकृतिविघातोऽनन्तरं निदानोक्तानां भावानामनुपसेवनमिति । तत्रापकर्षणं हस्तेनाभिगृह्य विमृश्योपकरणवता वाप्यपनयनम् अनुपकरणवता वा। स्थानगतानान्तु क्रिमीणां भेषजेनापकर्षणम्। न्यायतस्तचतुर्विधम् ; तद् यथा-शिरोविरेचनं वमनं विरेचनम्
आस्थापनमित्यपकर्षणविधिः। प्रकृतिविघातस्त्वेषां कटुकतिक्तकषायदारोष्णानां द्रव्याणामुपयोगः। यच्चान्यदपि किश्चित् श्लेष्मपुरीषप्रत्यनीकभूतं तत् स्यादिति प्रकृतिविघातः। अनन्तरं निदानोक्तानां भावानामनुपसेवनं यदुक्तं निदानविधौ, तस्य वजनं तथाविधप्रयोगाणाञ्चापरेषां द्रव्याणाम् । इति लक्षणतः चिकित्सितमनुव्याख्यातमेतदेव पुनर्विस्तरेणोपदेक्ष्यते ॥६॥ __ अथैनं क्रिमिकोष्ठमग्रे षड़ रात्रं सप्तरानं वा स्नेहस्वेदाभ्याम् उपपाद्य श्वोभूते एनं संशोधनं पाययितास्मीति क्षीरगुड़
समासेन चिकित्सितम् । प्रकृतिविद्यात इति मलकफशोणितपुरीषाणां प्रकृतीनां निर्हरणादिना प्रतीकारः । तत्रापकर्षणमित्यादिना भाष्यरूपतया च सङ्क्षपचिकित्सितम्। हस्तेनेति ऊर्द्ध मधश्च किश्चिनिःमृताभिप्रायेण उपकरणं हस्तलग्नवस्तुविशेष आहरणार्थ ग्रहणयोग्यः। स्थानगतानामिति मलादाक्तस्वस्वस्थानस्थितानाम् । न्यायत इति यथाविधितः । अपकर्षणं विवृणोति । तच्चेत्यादि । अनन्तरमिति अपकर्षणानन्तरं प्रकृतिविघातस्ततः परम् ॥९॥
गङ्गाधरः-अथैनमित्यादि। परात्रं सप्तरात्रं वा स्नेहस्वेदाभ्यामुपपाद्या
चक्रपाणिः-अपकर्षणं हस्तादि संशोधनानि च, प्रकृतेः कारणस्य श्लेष्मरूपस्य । विघातः प्रकृतेरित्यर्थः। उपकरणवतेति सन्दंशाधपकरणयुक्तेन। तत् स्यादिति विघातः स्यादिति योजना । निदानोक्तानां भावानामनुपसेवनमिति विवरणानुवादः। अस्य विवरणम्-'यदुक्तम्' इत्यादि। तथाप्रायाणामिति इलेष्मजपुरीषजक्रिमिनिदानसदृशानामित्यर्थः। लक्षणत इति संक्षेपतः। संक्षेपो हि विस्तरस्य ग्राहकं लक्षणं भवति ॥९॥
१९२
For Private and Personal Use Only