________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् । दा सततमवघट्टयन्। स यदा जानीयात् विरमति शब्दः प्रशाम्यति च फेनः प्रसादमापद्यते स्नेहो यथाखञ्च गन्धवर्णरसोत्पत्तिः संवर्त्तते च भैषज्यमङ्गलीभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि चेति स कालस्तस्यावतारणाय। ततस्तम् अवहृत्य ® शीतीभूतमहतेन वाससा परिपूय शुचौ दृढे कलसे समासिच्य विधानेन पिधाय शुक्लेन वस्त्रप नाच्छाद्य सूत्रेण सुबद्धं सुनिगुप्त निधापयेत्। ततोऽस्मै मात्रां प्रयच्छेत् पानाय, तेन साधु विरिच्यते । सम्यगपहृतदोषस्य चानुपूर्वी यथोक्ता । ततश्चैनमनुवासयेत् तु काले।
एतेनैव च पाकविधिना सर्षपातसीकरञ्जकोषातकीस्नेहान् उपकल्प्य पाययेत् सर्वविशेषानवेक्षमाणस्तेनागदो भवति । एवं द्वयानां श्लेष्मपुरीषसम्भवानां क्रिमीणां समुत्थानसंस्थानस्थानवर्णनामप्रभावचिकित्सितविशेषा व्याख्याताः सामान्यतः । विशेषतस्तु खल्वल्पमात्रमास्थापनानुवासनानुलोमहरणभूयिष्ठं तेष्वौषधेषु क्रिमीणां पुरीषसम्भवानां चिकित्सितं कार्यम् । कटाहे समासिच्य पचेत् । ततस्ववतारणार्थं स्नेहपाकसिद्धिविज्ञानमाहविरमतीत्यादि। संवत्तते वत्तितो वत्तिः स्यात् । सम्यगपहृतदोषस्य तत्तैलपानेन विरेकानन्तरं विरेचनोक्तानुपूर्वी विहाराहारयोरिति । ततो विरेकात् परमनुवासनस्य कालेऽनुवासयेत्।
तिलतैलकल्पेन सर्वपादिस्नेहानतिदिशति-एतेनैवेत्यादि। तेनागदो निष्क्रिमिरोगो भवतीत्यर्थः । एवमित्यादि । समुत्थानं निदानं संस्थानमाकृतिः चिकित्सितं निदानोक्तानां भावानामनुपसेवनं प्रकृतिविघातश्च अपकर्षणादि । विशेषतस्वित्यादि। अल्पमात्रमित्यादि तेषूक्तेषु औषधेषु मध्ये यावन्मात्रं यद्रव्यं तैलसंस्कारकम्, तदानुरूप्येण वर्णादिसम्पत्तिरित्यर्थः। संवर्तते इति
* अवतीर्णमिति चक्रः ।
१९३
For Private and Personal Use Only