________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः.
विमानस्थानम् ।
१५२७ स्थानम्। प्रभावस्तु प्रवर्द्धमानास्तेऽयो विसन्ति, यस्य पुनरामाशयोन्मुखाश्च स्युर्यदन्ताम्, तदन्तरं तस्योद्वारनिश्वासाः पुरीषगन्धिनः स्युः। संस्थानवर्णविशेषास्तु सूक्ष्मवृत्तपरीणाहाः श्वेता दीर्घोणाशुसङ्काशाः , केचित्, केचित् पुनः स्थूलवृत्तपरीणाहाः श्यावनीलहरितपीताः। तेषां नामानि-ककेरुका मकेरुका लेलिहाः सशलकाः सौसुरादाश्चेति। प्रभावः पुरीषभेदः कायं पारुष्यं रोमहर्षाभिनिवर्त्तनश्च। त एव चास्य गुइमुखं परितुदन्तः कण्डूश्चोपजनयन्तो गुदमुखं एसिते । ते जातहर्षा गुदनिष्क्रमणमतिवलं कुर्वन्ति। इत्येवमेष श्लेष्मजानां पुरीषजानाञ्च समुत्थानादिविशेषः ॥ ८॥ इति। पकाशयो नामरधः। प्रभाव इति पूधवत् प्रभावकामित्यथः । यस्य पुनः अवद्धमानास्तु ते यदन्तरं यन्मध्ये आमाशयोन्मुखाः स्युस्तदन्तरं तस्य पुरुषस्य उदगारनिश्वासाः । संस्थानेत्यादि। मुमा वृत्ताः परीणाहाः चतुःपार्था येषां ते तथा। दीर्घोणांशुसङ्काशाः दीर्घमेषलोमसदृशाः। स्थूला वृत्ताः परीणाहा येषां ते नथा। झ्यावनीलहरितपीता एकदेशे श्यावा अपरदेशे नीला अन्यदेशे हरिता इतरदेशे पीता इति चतुर्वणाः। तेषां द्विविधानां नामानि ककेरुकादीनि पञ्च प्रभावः प्रभाव काय्यं पुरीषभेदादिकम् । त एव ककेरुकादयः पासते परिवसन्ति । ते इति पुरीषजक्रिययः गुदनिष्क्रमणं गुदनिःसरणमतिवेलमतिमात्रं समुत्थानादेः सम्प्राप्तादेविशेषो भेदः, न तु निदानादिविशेषः। सुश्रुने नु-असात्मप्राध्यशनाजीर्णविरुद्धमलिनाशनैः । अव्यायामदिवास्वाम-गुर्चतिस्निग्धशीतलैः। माषपिष्टानविदल-विसशालूकसेरुकैः। पर्णशाकमुराशुक्त-दधिक्षीरगुडेक्षुभिः। पलालानूपपिशित-पिण्याकपृथुकादिभिः। स्वादुम्लद्रवपानश्च श्लेष्मा पित्तश्च कुप्यति। क्रिमीन बहु
चक्रपाणिः --यदन्तरमिति यस्मिन् काले, तदन्तरं तत्कालमेव । ऊणांशुसंकाशा इति मेषलोमतुल्याः। पर्याप्सत इति मिपन्ति किंवा गुढं परिवा-सते । अतिबेलमिति पुनःपुनः ॥ ८॥ * दीर्घा जणांशुसङ्काशा इति पाठान्तरम् ।
For Private and Personal Use Only