________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् ।
१५२५ व्याचक्ष्महे। तेषां समुत्थानं मृजावर्जनं स्थानं केशश्मश्रुलोमपक्ष्मवासांसि । संस्थानमणवस्तिलाकूतयो बहुपादाश्च । वर्णस्तु कृष्णः शक्लश्च। नामानि चैषां यूकाः पिपीलिकाश्च । प्रभावः कण्ड्रजननं कोठपिड़काभिनिवर्तनश्च । चिकित्सितन्तु खल्वेषामएकर्षणं मलोपघातो मलकराणाञ्च भावानामनुपसेवनमिति ॥ ५ ॥
शोणितजानान्तु कुष्ठः समानं समुत्थानम् । स्थानं रक्तवाहिन्यो धमन्यः। संस्थानम् अणवो वृत्ताश्चाादाश्च । सूक्ष्मत्वाच्चैके भवन्त्यदृश्याः। वर्णस्तेषां ताम्रः । नामानि केशादा लोमादा लोमडीशः सौरसा औड़ म्बरा जन्तुमातरश्चेति। प्रभावः केशश्मश्रुलोमपदमावध्वंसो व्रणगतानाच हर्षकण्डूतोदसंसर्पणानि। अतिप्रवृद्धानाञ्च त्वक्सिरास्नायुमांसतरुणास्थिभक्षणमिति। चिकित्सितमप्येषां कुष्ठः समानम्, तदुत्तरकालम् उपदेच्यामः ॥ ६॥
शरीरकेशादिस्थः, आभ्यन्तरः पुरीपादिः, मृजावर्जनं गात्रमार्जनाविधानम् स्थानं केशादि स्पष्टम् । संस्थानमाकारः । अणवः मूक्ष्माः । पिपीलिकास्वन्यैलिख्या उच्यन्ते। अपकर्षणमाकपणं कङ्कत्यादिभिः। मलोपघातो मलापहरणविधानम् ॥ ५॥
गङ्गाधरः-शोणितेत्यादि। कुष्ठः समानं समुत्थानं निदानं कुष्ठाधिकार कुष्ठानां यदयन्निदानमुक्तं तत्तन्निदानं ततकुष्ठकरक्रिमीणां निदानमित्यर्थः । संस्थानं शरीरम्याकारः । वृत्ता वर्नुलाः । मूक्ष्मखादेके भवन्त्यदृश्या इत्यनेनान्ये केचिद दृश्याश्च भवन्त्यनतिमूक्षखात्। नामानि स्पष्टानि । व्रणगतानां प्रभावो हर्षादीनि, अतिप्रवृद्धानाञ्च प्रभावस्वगादिभक्षणम् । कुष्ठः समानं समुत्थान
इति वाह्यमलजाः । पिपीलिकां लिक्षां केचिदाहुः। क्रिमीणां संज्ञा स्वशास्त्रव्यवहारसिद्धा देशान्तर
For Private and Personal Use Only