________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२१
चरक-संहिता। ध्याधितरूपीयं विमानम् व्याधितरूपहेतुविप्रतिपत्तौ कारणं सापवादं संप्रतिपत्तिकारणञ्च अनपवादं भगवन्तमात्रेयमग्निवेशोऽतःपरं सर्वक्रिमीणां पुरुषसंश्रयाणां समुत्थानस्थानसंस्थानवर्णनामप्रभावचिकित्सितविशेषान् पप्रच्छोपसंगृह्य पादौ ॥ ४ ॥ ____ अथास्मै प्रोवाच भगवानात्रेयः। इह खल्वग्निवेश, विंशतिविधाः क्रिमयः पूर्वमुद्दिष्टा नानाविधेन प्रविभागेनान्यत्र सहजभ्यः। ते पुनः प्रकृतिभिर्विभज्यमानाश्चतुर्विधा भवन्ति । तद् यथा—पुरीषजाः श्लेष्मजाः शोणितजा मलजाश्चेति । तत्र मलो वाह्यश्चाभ्यन्तरश्च। तत्र वाह्यमलजातान् मलजान् कम्। अधिके च प्रधाने च प्रथमे चाभिधेयवत् । अस्रकोणे कचे पुसि लीवमश्रुणि शोणिते । इत्यभिधानादधिकार्थेऽग्रशब्दः। एवं पूर्वपरस्मिंश्च व्याख्यातम् । व्याधितरूपस्य तोर्विप्रतिपत्तौ प्रतिपत्त्यभावे कारणं ज्ञानावयवरूपं सापवादं सदोषं श्रखा व्याधितरूपस्य हेतोः सम्प्रतिपत्तिकारणंज्ञानसमुदायमनपवाद निर्दोष श्रखा अग्निवेशोऽतः परं द्विविधव्याधितरूपस्योपदेशानन्तरं पुरुषाणां क्रिमिव्याधितानामक्रिमिव्याधितरूपखेन विज्ञानं सदोष क्रिमिप्रतीकाराकरणेन रोगानुच्छेदात् क्रिमिव्याधितहेतुशानन्तु निरपवादं तत्प्रतिकारेण क्रिम्युच्छेदादतः पुरुषसंश्रयाणां सर्व क्रिमीणां समुत्थानादिविशेषान पप्रच्छ ॥ ४ ॥
गङ्गाधरः- अथास्मा इत्यादि। इहेत्यादि उत्तरमाह-पूर्वमष्टोदरीये । नानाविधेन यूकादिनामभेदेन वाह्यमल जलेन द्विधा शोणितजलेन केशादादिनाम्ना षट्कफजलेनात्रादादिनाम्ना सप्त पुरीषजवन ककेरुकादिनाम्ना पश्चपविभागन विंशतिः क्रिमिजातय उक्ता अत्र तन्त्रे सहजक्रिमिभ्योऽन्यत्र सहजाः क्रिमियस्त तत्र नोक्ता अवैकारिकखात् । ते पुनश्चतुर्विधेति स्पष्टम् । तत्रेत्यादि । वाह्यमल: परिमाणवाची। व्याधितरूपस्य हेतुः सत्वादिबलवत्त्वाबलवत्त्वे, तस्कृतो विप्रतिपत्तिाधितरूपहेतु विप्रतिपत्तिस्तत्र। कारणं एकदेशेन ज्ञानम्। सापवादमिति सदोषम्। सम्यक प्रतिपत्तिः संप्रतिपत्तिः ॥४॥ - चक्रपाणिः--पूर्वमुद्दिष्टा इत्यष्टोदरीये संज्ञामात्रकथिताः ! अन्यत्र सहजेभ्य इत्यनेन शरीरसहजास्ववैकारिकाः क्रिमयो विंशतेरप्यधिका भवन्तीति दर्शयति । प्रकृतिभिरिति कारणैः । मलजा
For Private and Personal Use Only