________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७म अध्यायः
विमानस्थानम् ।
१५२३ न क्वचिदपि विप्रतिपद्यन्ने, यथेष्टमर्थमभिनिवर्तयन्ति चेति ॥२॥
भवन्ति चात्र। सत्त्वादीनां विकल्पेन व्याधीनां रूप-8-मातुरे। दृष्टा विप्रतिपदान्ले बाला व्याधिबलावले ॥ ते भेषजमयोगेन कुर्वन्त्यज्ञानमोहिताः । व्याधितानां विनाशाय क्लेशाय महतेऽपि वा ॥ प्रज्ञास्तु सर्वमाज्ञाय परीक्ष्यमिह सर्वथा। न स्खलन्ति प्रयोगेषु भेषजानां कदाचन ॥३॥
इति व्याधितरूपाधिकारे श्रुत्वा व्याधितरूपसंख्याग्रसभ्भवं दृषयति एवमित्यादि। एवमनेन प्रकारेण । विदितेत्यादि । विदिताः सर्वथा विज्ञाता वेदितव्या शं या यैस्ते तथा यथेष्टमर्थ अभिमतप्रयोजनम् ॥२॥
गङ्गाधरः-पूर्वोक्तमर्थं तद्विद्यव्यवसायार्थ पदेवनाह-भवन्ति चात्रेत्यादि । सत्त्वादीनामित्यादि श्लोकत्रयं स्पष्टम् ॥३॥
गङ्गाधरः-अत ऊर्द्ध क्रिम्युपदेशस्य सङ्गतिमाह-व्याधितरूपाधिकारे श्रुखत्यादि। व्याधितरूपसंख्याग्रसम्भवमिति व्याधितरूपस्य पुरुषस्य संयाया अग्रस्याधिक्यस्य गुरुव्याधिते लघुव्याधितरूपत्वं लघुव्याधितस्य गुरुव्याधितरूपत्वमिवान्यादृशव्याधितस्य तदन्यादृशव्याधितरूपत्वस्य सम्भवं श्रखा। अग्र पुरुस्तादुपरि परिमाणं परस्य च। आलम्बने समूहे च प्रान्तरे स्यात् नपुंसहत्येति अतियोगेन हृत्वेत्यर्थः । ज्ञानस्येति ज्ञानसाधनस्य। यथासम्भवमिति यानि यत्र ज्ञानसाधनानि भवन्ति, तैम्तन्त्र । परीक्ष्यं सत्त्वादि । न क्वचिदपीति गौरवलाघवादौ ॥ १२ ॥
चक्रपाणिः-एतदेव सुखग्रहणार्थं श्लोकेनाह-सत्त्वेत्यादि। ग्याधिरूपमिति व्याधेर्गतिरूपमित्यर्थः। व्याधितरूपमिति तु पाठः सुगमः। बाला इत्यल्पज्ञाः, अयोगेनेत्यसम्यगयोगेन। तेनातियोगमिथ्यायोगयोर्ग्रहणं भवति ॥ ३ ॥
चक्रपाणिः-सम्प्रति व्याधिगुरुलाघवस्य दुज्ञेयताप्रसङ्गन दुर्शयक्रिमिख्यापकमपि प्रकरण मारभते-व्याधित इत्यादि। संख्याग्रसम्भवमिति संख्याप्रमाणसम्भवमित्यर्थः। अनशब्दो
* व्याधिरूपमिति चक्रतः पाठः ।
For Private and Personal Use Only