________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२२
चरक-संहिता। व्याधितरूपीयं विमानम् पद्यन्ते। न हि ज्ञानावयवेन कृत्स्ने ज्ञये विज्ञानमुत्पद्यते । विप्रतिपन्नास्तु खलु रोगज्ञाने चोपक्रमयुक्ति ज्ञाने चापि विप्रतिपद्यन्ते। ते यदा गुरुःयाधितं लघुव्याधितरूपमासादयन्ति तमल्पदोषं मत्वा संशोधनकालेऽस्मै मृदुसंशोधनं प्रयच्छन्तो भूय एवास्य दोषानुदीरयन्ति। यदा तु लघुव्याधितं गुरुव्याधितरूपमासादयन्ति तं महादोषं मत्वा संशोधनकालेऽस्मै तीक्ष्णं संशोधनं प्रयच्छन्तो दोषानतिनिहत्यैव ® शरीरमस्य निवन्ति । एवमवयवेन ज्ञानस्य कृत्स्ने ज्ञये ज्ञानमभिमन्यमानाः परिस्खलन्ति। विदितवेदितव्यास्तु भिषजः सव्वं सर्वथा यथासम्भवं परीक्ष्यं परीक्ष्याध्यवस्यन्तो रूपं पुरुषस्य गुरुव्याधितं लघुच्याधितवद्रूपं लघुव्याधितं गुरुव्याधितवद्रूपं केवलं चक्षुषैव दृष्ट्वा सत्त्वादिवल न दृष्ट्वा व्याधेगो रखे लाघवे च विप्रतिपद्यन्ते प्रतिपत्तिं न लभन्ते । नन चक्षुरादाकैकेनैव रोगज्ञानं भवति कथं विप्रतिपद्यन्ते इत्यत आह-न हीत्यादि। ज्ञानावयवेन प्रत्यक्षेणानमानेन वा विना ज्ञानसमुदयेन ज्ञातव्ये कृत्स्ने भावे विज्ञानं नोत्पद्यते । तस्मात् सत्त्ववलशरीरसम्पत्ती विज्ञातुमवश्यं भवतः व्याधिगुरुलाघवज्ञानार्थमिति भावः । ननु किमर्थ व्याधिः कात्स्न्ये न ज्ञातव्यः स्वरूपतो ज्ञानमात्रेणैव उपक्रान्तुमर्हति इत्यत आहविप्रतिपन्नास्त्वित्यादि। रोगज्ञाने च विपतिपना वैद्या रोगस्योपक्रमस्य युक्तश्च ज्ञाने च विपतिपद्यन्ते प्रतिपत्तिं न लभन्ते। ननु तथाविप्रतिपत्तौ का च हानिरित्यत आह-ते यदेत्यादि। स्पष्टम्। ज्ञानावयवतो ज्ञानवादिनं नोपलक्षणम् । तेन स्पर्शादिनापि विशेषानवगाहकेनेति बोद्धव्यम् । रूपमिति विरूपम् । अध्यवस्यन्त इति निश्चयं कुर्वन्तः । गुरुलाघवे विप्रतिपद्यन्त इति गुरुलधुत्वे न प्रतिपद्यन्ते । ... अत्रैव विरुद्ध प्रतिपत्ती हेतुमाह-न हीत्यादि। ज्ञानावयवेनेति एकदेशज्ञानेन। विप्रतिपत्तिफलमाह -विप्रतिपन्नास्त्वित्यादि। उपक्रमस्य भेषजप्रयोगस्य विकारेण समं योजना उपक्रमयुक्तिः, तस्या ज्ञाने विरुद्ध प्रतिपत्तिमन्तो भवन्ति। एतदेव व्याकरोति -ते यदेत्यादि। भासादयन्तीति बुध्यन्ते । उदीरयन्तीति प्रकोपयन्त्येव परं न त्वल्पबलत्वाद हरन्तीत्यर्थः । अति... अतिहत्यैवेति पाठान्तरम् ।
For Private and Personal Use Only