________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमोऽध्यायः। अथाता व्याधितरूपीयं विमानं व्याख्यास्यामः,
इतिह स्माह भगवानात्रयः ॥ १॥ इह म्बलु द्वौ पुरुषो व्याधितरूपो भवतः, गुरुव्याधितो लघुव्याधितश्च। तत्र गुरुव्याधित एकः सत्वबलशरीरसम्पदुपेतत्वा लघुव्याधित इव दृश्यते। लघुव्याधितोऽपरः सत्त्वादीनामल्पत्वाद-8-गुरुव्याधित इव दृश्यते। तयोरकुशलाः केवलं चक्षुषैव रूपं दृष्ट्राध्यवस्यन्तो व्याधिगुरुलाघवे विप्रति
गङ्गाधरः---अथ .पुरुषाणां प्रकृतिमानविज्ञानार्थ व्याधितरूपीयविमानमारभते-अथात इत्यादि । व्याधितरूपो भवत इत्यस्यार्थ व्याधितरूपमधिकृत्य कृतं विमानम् तत् ॥१॥
गङ्गाधरः--इहेत्यादि। व्याधितस्यान्योन्यस्येव रूपं ययोर्वाधितयोस्तो व्याधितरूपौ। तत्रेत्यादि। गुरुव्याधितस्तु वस्तुतः स च सत्त्वाप्रपेतखाल्लघुव्याधित इव दृश्यते इति। लघुव्याधितरूपो गुरुव्याधितः सत्त्वस्य मनसो बलं शरीरस्य सम्पत् ताभ्यामुपेतखात्। लघुव्याधितोऽपरो वास्तविकः, स च सत्त्वबलशरीरसम्पदभावाल्लघुव्याधितोऽपि गुरुव्याधित इव दृश्यते। इति गुरुव्याधितरूपो लघुव्याधितो द्वितीय इति द्वौ पुरुषो व्याधितरूपौ। नन्वेव ग्रुपदेशस्य किं प्रयोजनमित्यत आह-तयोरित्यादि। चक्षुषैवेति
चक्रपाणिः- पूर्वाध्याये व्याधि प्रतिपाद्य व्याधितस्य पुरुषस्य भेदं चिकित्सोपयोगितया प्रतिपादयितु तथा तत्प्रसङ्गाच क्रिमीन् प्रतिपादयितु व्याधितरूपीयोऽभिधीयते। द्वावित्यादौ व्याधिरितो जातो यस्य स व्याधितस्तस्येव रूपं ययोस्तो व्याधितरूपी व्याधितसदशावित्यर्थः। यो हि गुरुव्याधिः सम्पन्नसत्वादिना लघुव्याधिदृश्यते, नासावपि लघुना व्याधिना व्याधितः, किन्तु गुरुव्याधित एवासौ । तेन व्याधितरूपावित्यनेन लघुव्याधियुक्तसदृशो बोध्यः, स तु गुरुणैव व्याधिना व्याधितो गुरुव्याधिरदूरदर्शिना लघुव्याधिरिव दृश्यते। एवं विपर्यासालघुग्याधितोऽपर इत्यादावपि व्याख्येयम्। अधमन्वादिति ह्यवरत्वादित्यर्थः । चक्षुषैवेति उत्तरज्ञानसाध
* अधमत्वादिति चक्रः।
For Private and Personal Use Only