________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२० चरक संहिता।
रोगानीकविमानम् नराणां वातलादीनां प्रकृतिस्थापनानि च। रोगानीकविमानेऽस्मिन् व्याहृतानि महर्षिणा ॥ १५ । इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
रोगानीकं विमानं नाम षष्ठोऽध्यायः॥ ६॥ रक्षणञ्चेति चकारात्। तानीत्यादिना वातलादीनां प्रकृतिस्थापन विकृत्यात्मकप्रकृतिप्रशमनेन समवातपित्तश्लेष्मरूपप्रकृतिकरणम् ॥१५॥
अध्यायं समापयति-- अग्नीत्यादि।
इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे रोगानीकविमाननामषष्ठाध्याय
__ जल्पाख्या षष्ठी शाखा ॥६॥
पाति रक्षतीति प्राणपतिः। संग्रहे जरयतीति जरणो वह्निस्तं प्रति चिन्ता "अग्निषु" इत्यादिना ऋता। प्रकृतिस्थापनानीति भेषजानि ॥ १४ ॥ १५ ॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां रोगानीकविमानं नाम षष्टोऽध्यायः ॥ ६ ॥
For Private and Personal Use Only