________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
विमानस्थानम् ।
१५१६ मद्यानामुपयोगः। सधूमपानः सर्वशश्चोपवासस्तथोष्णं वासः सुखप्रतिषेधश्च सुखार्थमेवेति ॥ १३ ॥
भवति चात्र। सर्वरोगविशेषज्ञः सर्वकार्यविशेषवित् । सर्वभेषजतत्त्वज्ञो राज्ञः प्राणपतिर्भवेत् ॥ १४ ॥
तत्र श्लोकाः। प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम् ।। परस्पराविरोधश्च सामान्यं रोगदोषयोः ॥ दोषसंख्याविकाराणामेकदोषप्रकोपणम् । जरणं प्रति चिन्ता च देहाग्ने रक्षणानि च ॥
सर्वतोगमनम् । तीक्ष्णानां गवादिमूत्राणां पुराणानाम् । सधूमपान इति धूपपानञ्चेत्यर्थः। उष्णं वासो वस्त्रं सुखार्थमेव न दुःखार्थ सुखप्रतिषेधः । क्लेशकरश्रमादिकं नातिदुःखकरं यथा स्यात् तथा सेवेत ॥१३॥ गङ्गाधरः-एतद्विज्ञानफलमाह---भवन्तीत्यादि। सर्वरोगेत्यादि ॥ १४ ॥
गङ्गाधरः- अध्यायार्थमुपसंहरति । तत्र श्लोका इत्यादि। वे रोगानीके भवत इत्यारभ्य दशप्रकृत्यम्तरभेदेन दशरोगानीकस्य विकल्पना। संख्येयाग्राष्वित्यारभ्य पूर्वप्रकृत्यन्तरेण परप्रकृत्यन्तरस्य परस्परमविरोधः। समानो हीत्यादिना रोगदोषयोः सामान्यं विशेषश्च । दोषसंख्या विकाराणाश्च संख्या रजस्तमश्चेत्यादिना मानसदोपसंख्या। कामेत्यादिना मानसविकाराणां संख्या। वातपित्तेत्यादिना शारीरदोपसंख्या। ज्वरातिसारेत्यादिना शारीरविकाराणां संख्या। तत्र हीत्यादिना दोषप्रकोपणम् । अग्निष्वित्यादिना जरणं जाठराग्निं प्रति चिन्ता चतुर्विधवलेन । तेषान्वित्यादिना देहाग्ने रक्षणं समानिकरणं उपवासशब्दो ह्यत्र लङ्घने वर्त्तते। सुखार्थमित्यायतिसुखार्थम्। सुखप्रतिषेधाद्रि श्लेष्मक्षये भूते श्लेष्मविकाराभावलक्षणं सुखं भवति ॥ १३ ॥
चक्रपाणिः-यथोक्ताध्यायज्ञानादेव स्वयं सर्वरोगाभिज्ञं स्तौति--सर्व इत्यादिना। प्राणान्
For Private and Personal Use Only