________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः
विमानस्थानम् ।
१५१५ त्रयः पुरुषा भवन्त्यातुरास्ने वनातुरास्तन्त्रान्तरीयाणां भिषजाम् । तद् यथा-वातलश्च पित्तलश्च श्लेष्मलश्चेति ॥१०
तेषामिदं विशेषविज्ञानम् ।वातलस्य वातनिमित्ताः पित्तलस्य पित्तनिमित्ताः श्लेष्मलस्य श्लेष्मनिमित्ता व्याधयः स्युर्बलवन्तश्च। तत्र वातलस्य वातप्रकोपणोक्तान्यासेवमानस्य नि वातःप्रकोपमापद्यते।न तथेतरौ दोषौ । स तस्य प्रकोपमापन्नो यथोक्तर्विकारैः शरीरमुपतपति। बलवर्णसुखायुषामुपघाताय। तस्यावजयनं स्नेहरवेदी विधियुक्तो, मृदानि च संशोधनानि स्नेहोषणमधुराम्ललवणयुक्तानि।तद्वदभ्यवहाणि गङ्गाधरः-त्रय इत्यादि। भिषजामिति मते इति शेषः ॥१०॥
गङ्गाधरः-विशेषस्य विज्ञानं लिङ्गम्। वातलस्येत्यादि बलवन्तश्च भवन्तीत्यन्तमेकं लिङ्गम्, अत एवोक्तं न दोषप्रकृतिर्भवेदिति सुखसाध्यलक्षणम् । तत्र वातलस्येत्यादिना द्वितीयं लिङ्गं वातलादीनां वातप्रकोपणोपसेवनेन क्षिप्रं वातादिप्रकोपवचनेन तत् दूषितं येन तु विषजातो यथा कीटोन विषेण विपद्यते । तद्वत् प्रकृतिभिर्देहस्तज्जातवान्न बाध्यते इति सुश्रुतवचनात् प्रकृतिरपथ्यसेवनेन नात्यर्थं बाधते इत्युक्तं तदयुक्तम्। सुश्रुतस्य कुपथ्यसेवनेनातिबाधकखाभावाभिपायाभावात्। परन्तु वाताद्याधिक्येऽपि प्रकृतिभूतदोषैरप्रकृतिभूतदोषाधिक्ये बाधावन्न बाधा भवतीत्यभिप्रायात्। न तथेतरौ दोषाविति अप्रकृतिभूतावपरौ द्वौ दोषो तयोः प्रकोपणोपसेवनेन प्रकृतिभूतदोषवत् क्षिप्रं न प्रकुप्यत इति तृतीयलक्षणम् । स तस्येत्यादिना शरीरमुपतपतीत्यन्तेन चतुर्थ लिङ्गम्, यथोक्तैविकारैरशीतिविधादिवातविकारैः। बलाप्रपघातायेति पञ्चमं लिङ्गम् । तस्य वातलस्य वाताधिक्यावजयनं स्नेहादिकं मृदुनि स्नेहादियुक्तानि च संशोधनानि वमनविरेचनास्थापनशिरोविरेचनानीति चखारि। तद्वदिति स्नेहोष्णसमव्यायामादिचेष्टा भेषजञ्च ऋतुचर्याविधेयं वमनादिकारकं सूच्यतेऽनेनेति व्याख्यानयन्ति ॥ ८-१०॥
चक्रपाणिः-न तथेतरौ दोषाविति सत्यापि हेतुसेवयेत्यर्थः, अन्यथा वातप्रकोपणसेवया पित्त
For Private and Personal Use Only