SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५१६ चरक-संहिता। । रोगानीकविमानम् अभ्यज्यानुप्रपनाहोद्वेष्टनोन्मईन-परिषेकावगाह-संवाहनावपीड़नवित्रासनविस्मापनविस्मारणानि च सुरासवविधानं स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरवरेचनीयोपहिताः। तथा शतपाकाः सहस्त्रपाकाः सर्वशश्च प्रयोगार्थावस्तयो वस्तिनियमः सुखशीलता चेति ॥ ११॥ पित्तलस्यापि पित्तप्रकोपणोक्तान्यासेवमानस्य पित्तं विष प्रकोपमापद्यते। न तथेतरौ दोषो। तदस्य प्रकोपमापन्नं यथोक्तैर्विकारैः शरीरमुपतपति। बलवर्णसुखायुषामुपघाताय। तस्यावजयनं सर्पिष्पाणं सर्पिषा च स्नेहनमधश्च दोषहरणं C . मधुराम्ललवणयुक्तान्यभ्यवहार्याणि तथा स्नेहादियुक्तान्यभ्यज्यानि तैलादीनि। तथा स्नेहादियुक्तानुअपनाहादीनि स्नेहादियोगेन संवाहनवित्रासनयोर्वातहन्तृत्वं नानुपपन्नम् । स्नेहाश्चानेकयोनय इति स्थावरतिलसर्षपातसीकुसुम्भादियोनिका दुग्धसम्भवा एवं देहसम्भवा वसा अस्थिसम्भवो मज्जा च ते च स्नेहा दीपनीयादिद्रव्योपहिताः तथा शतपाकाः स्नेहाः सहस्रपाकाश्च स्नेहाः शतवारपाकैः संस्कृता इत्यर्थः। सर्वशश्च अप्रकृतिभूतानामविरोधेन प्रयोगार्था वस्तयोऽनुवासनवस्तयः। वस्तिनियमो दिनद्वयादिप्रतिनियमेन वस्तेः प्रयोगः । सुखशीलता प्रायेण सुखानुशीलनम् ॥११॥ गङ्गाधरः-पित्तलस्यापीत्यादिकं पूर्ववत् व्याख्येयम् । तदस्येति तत् पित्तमस्य पित्तस्य यथोक्तैश्चत्वारिंशता पित्तविकारैः। सर्पिषा स्नेहनं स्नेहन श्लेप्मणो द्विरेव नास्ति । वित्रासनादयो यद्यपि वातकारकास्तथापि वातजनितोन्मादविनाशकत्वेन चोक्ता इति ज्ञेयम् । उन्मादे हि वित्रासनादि भेषजमभिधायोक्तम्-'तेन याति शमं तस्य सर्वतो विप्लुतं मन इति। सर्वशः प्रयोगार्था इति पानाभ्यङ्गवस्त्यादिभिः प्रयोजनीया इत्यर्थः । वस्तिनियम इति वस्तौ यथोक्तनियमसेवेत्यर्थः। किंवा 'वस्तिनियम'शब्देन सिद्धौ वक्ष्यमाणकर्मकालयोगरूपं वस्तिसंख्यानियमं कर्त्तव्यतया दर्शयति । वक्ष्यति हि- शन्मताः कर्मसु वस्तियोगाः कालासतोऽर्द्धन" इति । सुखशीलता सततसुखसेवित्वम् ॥११॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy