SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५१४ चरक-संहिता। रोगानीकविमानम् दोषप्रतिकूलयोगीनि त्रीण्यनुप्रणिधानानि श्रेयस्कराणि भवन्ति, यावदग्नेः समीभावात् । समे तु सममेव कार्यम, एवञ्चेष्टा भेषजप्रयोगाश्चापरे । तानि * विस्तरेणानुव्याख्यास्यामः ॥६॥ दोषाणां त्रयाणां वातलानां पित्तलानां श्लेष्मलानाश्च यथास्वं वातलस्य वाताधिक्यं पित्तलस्य पित्ताधिक्यं श्लेष्मलस्य श्लेष्माधिक्यमभिसमीक्ष्य । दोषप्रतिकूलयोगीनीति वातलस्य वातप्रतिकूलयोगीनि मधुरामललवणादीनि। पित्तलस्य पित्तप्रतिकूलयोगीनि मधुरतिक्तकषायादीनि । श्लेष्मलस्य श्लेष्मप्रतिकूलयोगीनि कटुतिक्तकपायादीनि । यावदग्नेः समीभावात् समखप्रातुर्भावपर्यन्तम् । ततस्तेन तेन समे तु वह्नौ सममेव समसाकारमनुपणिधानं कार्यमित्यर्थः। ननु सुश्रुते-प्रकोपो वान्यथाभावः क्षयो वा नोपजायते। प्रकृतीनां स्वभावेन जायते तु गतायुषीति वचनं वचनेनानेन विरुध्यते वातलादीनां विषमाद्यग्नीनां साम्यकरवचनेन। समाग्नेर्वातलाद्याहारादिना वैषम्याद्याशङ्कायां पालनवचनेन चेति चेन्न। अप्रकृतिभूतानां कालप्रकर्षण वृद्धिक्षयान्यथाभावा यथा जायन्ते तथा गर्भात् प्रभृति प्रकृतिभूतानां कालेनापि न क्षयद्धान्जथाभावा भवन्ति इत्यभिप्रायेण सुश्रुतवचनम्, न च कारणोपसेवनेन तु क्षयरद्धान्यथाभावास्तेन प्रतिषिद्धा इत्यविरोधात् । अथ वातलादीनां धातुसाम्यापादनेन विषमाद्यग्नीनां मूत्ररूपेण समवकरणानुरक्षणोपायान् उक्त्वा निःशेषेण तदुपायं वक्तुमाह-एवञ्चेष्टा इत्यादि। एवञ्च वातलादीनां विषमाद्यग्निसाम्यकरणार्थ दोपप्रतिकूलयोगीन्यनुप्रणिधानानि श्रेयस्कराणि निषेव्य समाग्निमापन्नस्य समसबरससात्म्यं श्रयस्करं तथा परे च वातलादीनां विषमाद्यग्निसाम्यकरणानन्तरं समाग्निपालका रसायनविशेषा भेषनप्रयोगा इष्टाः प्रभावात्। वातलादीनां विषमाद्यग्निसाम्पकरणोपायं वक्तुमभिप्रेत्याह -तानीत्यादि। दोषप्रतिकूलयोगीनि त्रीण्यनुप्रणिधानानि ॥९॥ इति दुष्टदोषभाविता प्रकृतिरित्यर्थः। दोषे प्रवृद्ध प्रतिकूलतया योगीनि दोषप्रतिकूलयोगीनि प्रीणि वातपित्तश्लेष्मप्रतिकूलानि च। समे स्विति समतां गते वह्नी। यथोचितविधानेन वातप्रकृत्यादीनां सममेवानुप्रणिधानं कर्त्तव्यम् । एवमित्यनेन प्रकारेण चेष्टाभेषजयोरपि प्रयोगा वातादीनां भवन्ति । ये तु एवमित्यनेन चतुर्विधेनोक्तेन प्रकारेणेति वदन्ति, ते समप्रकृतीनाञ्च - * तान् इति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy