________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ष्ठ अध्यायः विमानस्थानम् ।
१५१३ एवोच्यते मनुष्याणाम्। न च विकृतेषु दोषेषु प्रकृतिस्थत्वमुपपद्यते तस्मान्नैताः प्रकृतयः सन्ति। सन्ति तु खलु वातलाः पित्तलाः श्लेष्मलाश्चाप्रकृतिस्थास्तु ते ज्ञयाः॥८॥
तेषान्तु खलु चतुर्विधानां पुरुषाणां चत्वार्यानुप्रणिधानानि श्रेयस्कराणि भवन्ति। तत्र समसबंधातूनां साकारसममधिकदोषाणान्तु त्रयाणां यथास्वं दोषाधिक्यमभिसमीक्ष्य वातादिदोषस्याधिक्यरूपा विकृतिः प्रकृतिरुच्यते, उक्तश्च प्रागेतत्-दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते। नन्वस्तु तथाविधा दोषविकृतिरूपैव प्रकृतिः का हानिस्तेनेत्यत आह-न चेत्यादि। गर्भात् प्रभृति विकारेष प्रकृतिस्थवं नोपपद्यते स्फुटितकरचरणादिविकारकत्वात्। समास्तु यथा यथा मानेन वातपित्तश्लेष्माणो येषां भवन्ति तथा तथा मानेन वृहन्मध्यहस्वादिरूपाः पुरुषाः सन्तस्तथा तथा बलवत्समाग्रयो भवन्तीति मानाधिक्याल्पवाभ्यां सममानले वातादीनां न क्षतिरिति भावः। तस्मात् विकृतित्वेन प्रकृतिस्थखानुपपत्त्या एता वातायाधिक्यरूपा न प्रकृतयः सन्ति, सन्ति तु खल वातला इत्यादि । ननु ते किं नारोगाः इत्यत आह-अप्रकृतिस्थास्तु ते ज्ञयाः न तु स्वस्था शे याः॥८॥
गङ्गाधरः-नन्वेवञ्चेत् तदा उत्तरकालं तत्प्रतिक्रियया विषमा वा तीक्ष्ण वा मन्दा वामयः किं समा न भवन्ति भवन्ति वा। समाश्च गर्भात् प्रभृति कि विषमा वा तीक्ष्णा वा मन्दा वा भवन्ति किं न वेत्यत आह-तेषान्तु खल्वित्यादि। अनुप्रणिधानानि अनु उत्तरकालं प्रकर्षेण प्रकृतिरूपेण निधीयन्ते वाताद्याधिक्यसाम्यानि यैस्तान्यनुप्रणिधानानि । तानि कीदृशानि इत्यत आह-तत्रेत्यादि। साकारसमं रसतो गुणतो वीर्यतो विपाकतः प्रभावतश्च मात्रातश्च कालतश्च देशतश्च सत्त्वतश्च सात्म्यतश्च समवातपित्तश्लेष्मभिः समं यत् प्रतिकर्म तद्विधानं श्रेयस्करम् । समाग्ने रक्षणकरम् । वातलायननुमणिशानन्तु न श्रेयस्करं किन्तु वैषम्यादिकरमिति भावः। अधिककेलाकाष्ठादिवैषम्यं परित्यज्याविभूतविकाराकारित्वेनादूरान्तरं साम्यमिष्यते, ताहगेव प्रकृतावपि साम्यमस्स्येवेति भावः। अन्ये तु वैषम्यं नाद्रियन्त एवं व्यपदेश्यरोगाजनक वात्। दोषप्रकृतिः
For Private and Personal Use Only