SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५१२ चरक-संहिता। रोगानीकविमानम् ___तत्र केचिदाहुन समवातपित्तश्लेष्माणो जन्तवः सन्ति विषमाहारोपयोगित्वान्मनुष्याणाम्। तस्माच्च वातप्रकृतयः केचित्, केचित् पित्तप्रकृतयः, केचित् पुनः श्लेष्मप्रकृतयश्च भवन्तीति। तच्चानुपपन्नम्, कस्मात् कारणात् ? समवातपित्तश्लेष्माणं ह्यरोगम् इच्छन्ति भिषजः। यतः प्रकृतिश्चारोग्यमारोग्यार्था च भेषजप्रवृत्तिः, सा चेष्टरूपा। तस्मात् सन्ति समवातपित्तश्लेष्मप्रकृतयः; न तु खलु सन्ति वातप्रकृतयः पित्तप्रकृतयः श्लेष्मप्रकृतयो वा। तस्य तस्य हि दोषस्याधिकभावात् सा सा दोषप्रकृतिः गङ्गाधरः-मतान्तरमत्राह-तत्रेत्यादि । केचिन्मुनयस्तत्र चतुर्विधेषु अग्निषु इदमाहुः ; तद् यथा-विषमाहाराणां समस+रसद्रव्याणामसम्भवाद् विषमरसद्रव्याणामाहाराणामुपयोगशीलखात् गर्भात् प्रभृति समवातपित्तश्लेष्माणो जन्तवो न सन्ति। तस्मात् समा अग्नयोऽपि न सन्ति इति भावस्तस्माच वातप्रकृतिकादयस्त्रिविधा एव पुरुषाः सन्ति वह्नयश्च विषमास्तीक्ष्णा मन्दाश्चेति त्रिविधा इति भावः। अत्राप्येके वातादिप्रकृतय इव द्वन्द्वपकृतयस्त्रिधा अपि पुरुषा भवन्ति, वह्नयश्च तेषां दोषानुरूपाः, तद् यथा-वातपित्तप्रकृतीनां वह्नयोतितीक्ष्णा वातश्लेष्मप्रकृतीनां न विषमा न च मन्दा मन्दविषमाः। कदाचित् खल्पमपि भुक्तं न सम्यक् पचन्ति कदाचिदाध्मानादिकं कृखा स्वल्पं भुक्तं सम्यक् पचन्ति। पित्तश्लेष्मप्रकृतीनान्तु वह्नयो न तीक्ष्णा न मन्दाः, मध्यमा एव भवन्ति। मध्यममात्रमन्नं सुखं पचन्ति इति भाषन्ते। मतमेतत् सर्व्वतन्त्रेषु चतुबिधाग्निव्यतिरेकेण दर्शनाभावादितरेषामग्नीनामस्वीकाराद अमूलकलमभिप्रत्य नोपन्यस्य वातादिप्रकृतिवादं दृषयति-तच्चेत्यादि। स्पष्टम्। तस्य तस्य हीत्यादि। हि यस्मात् तस्य तस्य दोषस्य वातप्रकृतिषु पुरुषेषु गर्भात् प्रभृति वातस्य पित्तप्रकृतिष पित्तस्य कफप्रकृतिषु कफस्य दोपस्याधिकलादितरदोषापेक्षया मानाधिक्यात्। सा सा चक्रपाणिः-विषमाहारोपयोगित्वादिति, नायं पुरुषस्तुलाधारतमिवाहारमुपयुङ्क्ते, तेनावश्यमत्र वातादिष्वन्यतमोऽपि दोषो विकृतो भवतीति भावः। “समवातपित्तश्लेष्माणम्" इस्यादिना, अस्ति तावदारोग्यं पुरुषेषु वैधव्यवहारसिमिति दर्शयति । तेन यादगिर्व दोषाणां For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy