________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४ अध्यायः ]
विमानस्थानम्।
१५११ इत्येते चतुर्विधा भवन्त्यग्नयश्चतुर्विधानामेव पुरुषाणाम् । तत्र समवातपित्तश्लेष्मणां प्रकृतिस्थानां समा भवन्त्यग्नयः। वातलानान्तु वाताभिभूतेऽग्न्यधिष्ठाने विषमा भवन्ताग्नयः। पित्तलानान्तु पित्ताभिभूते ह्यग्न्यधिष्ठाने तीक्ष्णा भवन्त्यग्नयः । श्लेष्मलानान्तु श्लेष्माभिभूते ह्यग्न्यधिष्ठाने मन्दा भवन्त्यग्नयः॥७॥ मजीणेऽपि गुरु चान्नमथाश्नतः। दिवापि स्वपतो यस्य पच्यते सोऽग्निरुत्तमः॥ इति। अस्यातिद्धौ भस्मकसंज्ञा तल्लक्षणश्च तत्रान्तरेऽप्युक्तम्-नरे क्षीणकफे पित्तं कुपितं मारुतानुगम् । खोष्मणा पावकस्थाने वलमग्नः प्रयछति । तदा लब्धवलो देह विरुक्षेत् सानिलोऽनलः । अभिभूय पचत्यन्न तैश्यादाशु मुहम्मुहुः। पत्यान्न सततो धातून शोणितादीन् पचत्यपि। ततो दौर्बल्यमातङ्कान् मृत्युञ्चोपनयेन्नरम्। भुक्तेऽन्ने लभते शान्तिं जीर्णमात्रे प्रताम्यति । तृट्कासदाहमूर्छाः स्युफ्धयोऽत्यग्निसम्भवाः ॥ इति। नैतावत्यग्निभस्मको विषमानादिवत् सहजौ, किन्तु जातोत्तरकालं जातौ व्याधिविशेषौ ॥६॥
गङ्गाधरः-नन्वेते चतुर्विधा अग्नयः केषां भवन्तीत्यत आह–इत्येत इत्यादि। ननु केषां चतुर्विधानामित्यत आह-तत्रेत्यादि। प्रकृतिस्थानां वातादीनां साम्ये समा भवन्त्यग्नय इति न कृखा समवातेत्यादिकरणात प्रकृतिस्थानां गर्भात् प्रभृति येषां समा वातपित्तश्लेष्माणस्ते प्रकृतिस्थाः पुरुषाः, तेषां समा भवन्त्यग्नय इत्यर्थः। न तु गर्भारम्भे ट्रद्धा वा क्षीणा वा वातपित्तश्लेष्माणो येषां तेषां भवन्ति समा अनय इति विकृतखात्। गर्भात प्रभृति वातादीनां समत्वं याद्रूप्येण तद्विस्तरेण समपित्तानिलकफा इत्यादि वचनव्याख्यानेनोक्तम्। वातलानान्विति गर्भात् प्रभृति वातबहुलानां अग्नाधिष्ठाने ग्रहणीनाड्यां गर्भात् प्रभृति वाताभिभूतत्वात् वातलानां विषमा भवन्त्यमयः। एवं पित्तलानां श्लेष्मलानाश्च व्याख्येयम् ॥७॥ विक्रियते। समवातपित्तश्लेष्मणामित्युक्तेऽपि प्रकृतिस्थानाम्' इतिपदम्, वृद्धानां समवातपित्तश्लेष्मणां प्रतिषेधार्थम् । 'प्रकृति'शब्दस्य कारणाद्यनेकार्थताब्युदासार्थ समवातपित्तश्लेष्मणाम् इति कृतम्। वाताभिभूतेऽग्न्यधिष्ठान इतिवचनेन वातलानामपि यदेवाग्न्यधिष्ठानोपघातो वातेन क्रियते, तदेव वैषम्यं भवति । एवं पित्ताभिभूत इत्यादावपि व्याख्येयम् ॥ ७॥
For Private and Personal Use Only